पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । आवसथ्यम्=आवसध्याघानम् । एतच्च दायविभागकालेऽझिपरि- ग्रह इत्येतत् पक्षाभिप्रायम्, विवाहकालीनस्य तु दारसङ्ग्रहमित्य. नेनैव निरस्तत्वात् । पतितः = तत्तत्कर्मभ्यो न तु महापातकी परिवे दनादीनामुपपातकेषु पाठात् । अयमेव पर्याहित इत्युक्त लौगाक्षिणा- सोदर्ये तिष्ठति ज्येष्ठे योऽग्न्याधेयं करोति हि । तयोः पर्याहितो ज्येष्ठः पर्याधाता कनिष्ठकः ॥ इति । केषु चिदपवादमाह शातातपः । पितृव्यपुत्र सापत्नपरनारीसुतेषु च । ज्येष्ठष्वपि हि तिष्ठत्सु भ्रातृणां तु कर्नायसाम् ॥ दाराग्निहोत्रसंयोगे न दोषः परिवेदने । परनारीसुताः = यामुष्यायणादयः परक्षेत्रे स्वीयपित्रोत्पादिताः । दत्त क्कादयोऽपीति त्रिकाण्डमण्डनः । तथा- क्लीबे देशान्तरस्थे च पतिते भिक्षुके तथा । योगशास्त्राभियुक्ते च न दोषः परिवेदने । योगशास्त्रा मियुक्ताः =अतिषिरक्ताः । कास्थायनः- देशान्तरस्थान क्लीबैकवृषणानसहोदरान् । वेश्यातिसक्तपतितशूद्र तुल्यातिरोगिणः || जडमूकान्धवधिरकुब्जवामनषोडकान् । अतिवृद्धानभार्याश्च कृषिसकान् नृपस्य च ॥ धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा । कुहकांस्तस्करांश्चापि परिविन्दन्न दुष्यति ॥ एकवृषणो= रोगेण प्रवृद्धैकवृषणः । अतिरोगी=अचिकित्स्यरोगवान् । षोडको=भन्नचरणद्वयः । अभार्यो= नैष्ठिकब्रह्मचारी | कामतोऽकारिणः = स्वेच्छ- या विवाहमकुर्वाणा: । कुहकाः = कः | तस्कराः = ब्राह्मण सुवर्णयक्ति- रिक्तपरस्वापहारिणः । इतरस्य पतितपदेनैव सङ्ग्रहात् । देशान्तरस्थे तु वशिष्ठ आई- अष्टौ दश द्वादश वर्षाणि ज्येष्ठं भ्रातरमनिविष्टमप्रतीक्ष माणः प्रायश्चित्ती भवतीति । अनिविष्टम् = अकृतविवाहं देशान्तरावस्थितम् ।