पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- किञ्चिन्न तस्य दातव्यं चाण्डालसदृशो हि सः ॥ नलिक्षेित्रे कर्षणकर्तेत्यर्थः । मनु:- अवतैयैर्द्विजैर्भुक्त परिक्षेत्रादिभिस्तथा । आपायैर्यदन्यैश्च तद्वै रक्षासि भुजते ॥ ( अ० ३ लो० १७० ) अवताः = असंयताः शौचाचारविवर्जिता इति यावत् | परिवेत्रादय इत्यादिशब्दात् परिवित्तिः । तेषां लक्षणमुक्तं वृद्धयाज्ञवल्क्यादिभिः । तत्र वृद्धयाज्ञवल्क्यः- आवसथ्यमनाढत्य त्रेतायां यः प्रवर्तते । सोऽनाहितानिर्भवति परिवेत्ता तथोच्यते ॥ आवसथ्यम्= औपासनाझिम् । अनादृत्य =असंगृह्य । त्रेताहपत्याहवनी यदक्षिणामयः । अनाहिताग्निः= आधानजन्यफलरहितो भवतीत्यर्थः । मनुः । दाराग्निहोत्रसंयोगं कुरुते योऽप्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः । ( अ० ३ लो० १७१ ) स्थिते दाराग्निहोत्रसंयोगं विनेति शेषः | अग्निहोत्रशब्द: कर्मव चनोऽपि आघाने लाक्षणिक इति मेघातिथिप्रभृतयः । वस्तुतस्तु यथा श्रुतः कर्मवाचक एव । तेन यथा ज्येष्ठेऽकृतदारे दारसंयोगात दोषः तथा ज्येष्ठेन अग्निहोत्रानारम्भे कनिष्ठस्याग्निहोत्र इत्यर्थः । न च गाये णाघाने परिवित्याद्रुक्तत्वादेक श्रुतिकल्पनालाघवादझिहोत्रपदमा- धानपरमिति वाच्यम् । भिन्नश्रुतिकल्पनस्य फलमुखत्वेनादुष्टत्वान्त दनुरोधेनाग्निहोत्रशब्दे लक्षणायोगात् । दर्शेष्टि पौर्णमासेष्टि सोमेज्यामन्झिसंग्रहम् । अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् । न कुर्याजनके ज्येष्ठे सोदरे वाप्यकुर्वति ॥ इत्यग्निहोत्रस्य त्रिकाण्डमण्डनेन पृथगुपादानाच्च । गर्ग:- सोदर्ये सत्यपि ज्येष्ठे न कुर्याहारसंग्रहम् । मावसथ्यं तथावानं पतितस्त्वन्यथा भवेत् ।