पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तावतो ग्रसते प्रेत्य (१) दप्तान् ऋष्टीरयोगडान् ॥ ( अ० ३ श्लो १३३ ) आमन्त्रवित् = वेदाध्ययनशून्यः | दप्तान्=अग्नितुल्यान् | ऋष्टीः = आयुध. विशेषान् | अयोगडाः=अयोगोलकाः । तत्र निन्द्यानाह- मनुः, ( अ० ३ श्लो० १३८ ) 1 न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य सङ्ग्रहः । नारि निमन्त्रयेद्विद्वान् न श्राद्धे भोजयेद् द्विजम् ॥ गुणवतोऽपि मैत्रत्व पुरस्कारण प्रतिषेधः । मनोवाक्कायैरानुकू ल्यैक प्रवृत्ति मैत्री संग्रहोऽनुरोध. | अरिः=शत्रुः । मित्रनिषेधो गुणवदुदा तीनातिक्रमणन मित्रनिमन्त्रणस्य निषेधात् । शत्रुस्तु गुगवदुदासी नाभावे गुणवानप्यनुकल्पत्वेनापि न ग्राह्य इत्युक्तं मनुना-- कामं श्राद्धेऽर्चयेन्मित्र नासिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं भवति प्रेत्यं निष्फलम् ॥ ७८ ( अ० ३ श्लो० १४४ ) काममिति पुण्यवब्राह्मणाभावे | अभिरूपा=गुणयुक्तः ॥ एकगोत्रा- दयो न भोजनीया इत्युक्तं वायुपुराणे, न भोजयेदेकगोत्रान्समान प्रवरांस्तथा । एतेभ्यो हि हविर्दत्तं भुञ्जते न पितामहाः ॥ असगोत्रब्राह्मणासम्भवेऽपि सगोत्राणां भोज्यत्वं षड्भ्य ऊर्ध्व मेव, अत एव षण्णामेव पुरुषाणां निषेधमाह - अत्रिः-- षड्भ्यस्तु पुरुषेभ्योऽर्वाक् न श्राद्धेयास्तु गोत्रिणः । षड्भ्यस्तु परतो भोज्या श्राद्धे स्युर्गोत्रजा अपि ॥ तस्याप्यसम्भवे गौतम आइ- भोजयेदुवै त्रिभ्यो गुणवत्तममिति । अत्रिः, पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः । न परस्परमर्थ्याः स्युर्न श्राद्धे ऋत्विजस्तथा ॥ येनिमन्त्रसम्बद्धा अपि न भोजनीया इत्युक्तं ब्रह्माण्डपुराणे -- न भोज्या योनिलम्बद्धा गोत्रसम्बन्धिनस्तथा । मन्त्रान्तेवासिसम्बद्धाः श्राद्धे विप्राः कथञ्चन ॥ (१) दीप्तशूलर्च्चयोगुडानिति मुद्रितमनुस्मृतौ पाठः ।