पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । यत्तु भविष्यपुराणे, सनिकृष्टं द्विज यस्तु शुक्लजाति प्रियंवदम् । मूर्ख वा पण्डितं वापि वृत्तहीनमथापि वा ॥ नातिक्रामेन्नरो विद्वान् दारिद्रयाभिहतं तथा । अतिक्रम्य द्विजो घोरे नरके पातयेत् स्वकान् ॥ तस्मान्नातिकमेत् प्राशो ब्राह्मणान् प्रातिवेश्यकान् । सम्बन्धिनस्तथा सर्वान् दौहित्रं विट्पति तथा । भागिनेयं विशेषण तथा सम्बन्धिनः खगः ॥ इति मूर्खस्यापि सन्निकृष्टस्याऽनतिक्रम उक्तः, स गुणयुक्तास निहितब्राह्मणालाभे । अत एव बौधायन:- यस्य त्वेकगृहे मूर्खो दूरे वापि बहुश्रुतः । बहुश्रुताय दातव्यं नास्ति मुर्खे व्यतिक्रमः ॥ इति । एवञ्च सन्निहितानतिक्रमश्रवणं गुणयुक्तासन्निहितालाभे इति ध्येयम् । अथवा सन्निहितानतिक्रमश्रवणं श्राद्धादन्यत्र शेयम्, तत्र शेषभोजनपरं वेति । एष चातिक्रमविचारो स श्राद्धपदाश्रवणात्, निहितस्य वृत्तस्थत्वे । तथा च भारते, गायत्रीमात्रसारोऽपि ब्राह्मणः पूजितः खग | गृहासन्नो विशेषेण न भवेत् पतितः स चेत् ॥ इति । अथ श्राद्धे वर्ज्या ब्राह्मणा । तत्र वर्ज्येषु हव्यकव्यदानं न फलदमित्याह- यमः, ७७ ऊषरे तु यथेहोप्तं बीजमाशु विनश्यति । तथा दत्तमनर्हेभ्यो हव्यं कव्य न रोहति ॥ ऊषरः = क्षारमृत्तिकादेशः । न केवलमनहेभ्यो दानमफलं किन्तु दोषापादकम पीत्युक्तं वाराहपुराणे, न श्राद्धे भोजनीयाः स्युरन ब्राह्मणाधमाः । यैर्भुक्ते नश्यति श्राद्धं पितॄन् दातृश्च पातयेत् ॥ पतनप्रयोजकीभूताधर्मयुक्तानकुर्यादित्यर्थ । भोक्तुरध्यनर्हस्य दोष इत्युक्त मनुशातातपाभ्याम्- यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् ।