पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका । तत्र तत्र सन्दिग्धासलूँलग्नपाठविशेषो ग्रन्थान्तरेभ्यो निर्णीय समावेशित्तः, तत्रोपलब्धानि पाठान्तराणि च तत्तद्ग्रन्थनामस्थलनिर्देशपुरःसरं टिप्पण्यामुट्टङ्कितानि । त्रुटितस्थलेषु स्वमनीषाकल्पित एव पाठ: ( ) [ ] एतचिह्नद्वयान्तर्गततयोन्यस्तः, अधिकतया प्रतिभातो ग्रन्थस्थपाठश्च क्वचित् ( ) एतच्चिह्नमध्य एव निवेशितः, तयोर्युक्तायुक्तत्वे चावहितान्तःकरणैः कुशाप्रधिषणैरेवावधायें इति । संशोधने च स्वमतिमान्द्यान्नैशिककरणापाटवात्, व्यासङ्गात्, आयसाक्षरनियोक्तृकृतवर्णवैपरीत्यात्, मुद्रणावस्थायाम क्षरस्खलनप्रभृतिदोषाद्वा बहुत्र 'व्य' स्थाने 'ब्य' इति, 'व' स्थाने 'ब' इति 'ब' स्थाने 'व' इति, 'त्त' स्थाने 'त' इति, 'पु' स्थाने च 'षु' इति पतितं तत्र च पाठकमहोदयैरवधातव्यम् । उक्तदोषायत्तानामन्यासां च कतिपयानामशुद्धीनां ज्ञापकं शुद्धिपत्रं, संक्षिप्तविषयानुक्रमणं चोपन्यस्तमिति कृतेऽपि भूयसि परिश्रमे तत्र तत्र बहपराद्धं स्यादिति तत्र कृतबुद्धयो विद्वांस एव शरणमिति कृतमनल्पजल्पनेनेति- वात्, व्यासङ्गात्, w संशोधकः ।