पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगुरुः शरणम् । विज्ञापनम् । इंहो तत्तत्पदार्थसार्थनिर्णयनिविष्टमतयो विशिष्टशिष्टोपदिष्टनवनवप्रबन्धावलोकनकुतूहलिनो लोकानुग्रहैककृतिनः कृतिनः ! विदितमस्तु तत्र भवतां भवतां यत्किल श्राद्धापेक्षितसमस्तवस्तुनिरूपणपरः श्रीमन्महामहोपाध्यायमित्रमिश्रसुधीमहोदयनिर्मितो वीरमित्रोदयाभिधमहाप्रबन्धान्तर्गतः श्राद्धप्रकाशाख्यः निबन्धः सम्प्रति सर्वात्मना मुद्रितभावेन प्रकाश्यत्वं समगच्छत । यद्यपि शतशः सन्ति श्राद्धसम्बन्धिपदार्थसार्थनिरूपणपराणि निबन्धान्तराणि, तथापि नूनं तानि द्युमणेः पुरतः खद्योतखेलनमेवानुकुर्वत इति नास्ति तत्र मात्रयापि विचिकित्सालवलेशः । अभिहितञ्चात्मनैव- मा कुर्वन्तु सुधा बुधाः परिचयं प्रन्थेषु नानाविधे- ष्वत्यन्तं न हि तेषु सर्वविषयः कश्चित् क्वचिद् वर्तते । पश्यन्तु प्रणयादनन्यमनसो ग्रन्थं मदीयं त्विमं धर्माधर्मसमस्तनिर्णयविधिर्यस्मिन् दुरीदृश्यते ।। इति । तत्र कोऽयं मित्रमिश्रसुधीः, कदा कुत्र कतमो वा भूभागोऽनेन स्वजनुषा सनाथीकृतः कतमञ्च विप्रकुलमनेन विशेषतोऽलङ्कृतमित्यादिका प्रेक्षावतां प्रबन्धकृत्परिचयप्रतिपित्सा स्वयमेव प्रकाशान्तरे परिहृतेति परीक्षकैस्तत एवशक्यमखिलमप्युन्नेतुमिति कृतमात्मनो वाचाढतामात्रप्रकटनकौशलेन । समालोचनायां च वस्तुतस्त एवाधिक्रियन्ते ये ज्ञानविज्ञानसम्पदा भूयसा तपसा च प्रबन्धप्रणेतारमतिशयीरन्, अनेवंविधाञ्च समालोचमाना: केवलं चपलतामेव चिरं चिन्वीरन् न तु वस्तुतथ्यातथ्यावधारणदक्षतामिति तत्रानधिकृता एव वयमिति किं सहसा सहासेन साहसेन । एतन्मुद्रणं च काशीस्थगवर्मेण्टपुस्तकालयस्थहस्तलिखितपुस्तकमुपजीव्यैव सम्पादितम्।