पृष्ठम्:ThaaravalistotramSanskrit.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। अवनमनपराणां आयुरारोग्यवृद्धिं ___ निजचरणरतिञ्चोदञ्चयद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। हृदि विनतजनानां भक्तिकल्पद्रुवल्ली- जनिकृदमृतसेकैर्विस्फुरद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। गजवदनकराग्राकीर्यमाणस्वचूडा- तटवरसरिदूर्म्यासेचनैस्तापहारी। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। निजमकुटतटाञ्चन्निम्नगावीचिविप्रुट्- ___ प्रकरविकसनेन प्रापयन् तापशान्तिम्। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। प्रथमभिषगधीशख्यातिमूर्जस्वलां स्वां प्रविदधदवनम्र व्यूहसर्वातिहत्या। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। प्रवणजनविमोहध्वान्तविध्वंसकेळी- पटुतरदरहास प्रस्फुरञ्चन्द्रिकाभिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः ___ सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। कुपितशिखरिकन्या चित्तशीतांशुकान्त द्रुतिषु शशिमयूखैः सुन्दरैर्मन्दहासैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:ThaaravalistotramSanskrit.djvu/३&oldid=214174" इत्यस्माद् प्रतिप्राप्तम्