पृष्ठम्:ThaaravalistotramSanskrit.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणमति विहरद्भिस्तत्र सम्प्रीति दत्त- प्रविमलतरहारभ्रान्तिदैर्मन्दहासैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। स्फुटविचकलितार्या तुङ्गवक्षोजकुम्भ- श्रितकुवलयमालेनामलेन स्मितेन। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। स्फुरदधररुचिश्रीसङ्गिना पद्मराग- ___ द्युतिकवचितहीराभेन मन्दस्मितेन। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। सुकृतिहृदयसौध प्रोल्लसञ्चन्द्रिकाभिः ____ दरहसितरुचीभिर्दारितार्तिच्छटाभिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। कमलजठरनिर्यञ्चन्द्रिकाभ्रान्तिकृद्भिः ___ शुभतरदरहासैराननान्निसरद्भिः। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। श्रितजनघनपुण्यश्रेणिमल्लीमतल्ली- ____ कुसुमसमुदयेनोदारमन्दस्मितेन। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्ति साम्बमूर्तिर्विधत्ताम्।। तारावलीस्तुतिमिमां तरुणेन्दुमौळे: शृण्वन्ति ये भुवि पठन्ति शिवः स तेषाम्। दीर्घायुरुन्नतविभूतिसुतद्धि शम्भु भक्तयाद्यभीष्टमखिलं प्रददाति हृष्टः ।। ।। इति श्री श्रीधरवेङ्कटेशार्य कृतौ तारावलीस्तोत्रं सम्पूर्णम् ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:ThaaravalistotramSanskrit.djvu/४&oldid=214175" इत्यस्माद् प्रतिप्राप्तम्