पृष्ठम्:SukavihRdayAnandinI.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाठान्तरम्‌ । नजसजगर्भवति मञ्जुभाषिणी । ७८ सजसा जगौ भवति मञ्जुभाषिणी । ७८५

यस्य पादे सगणजगणसगणजगणा गुरुश्च तदृतं मञ्जुभाषिणी नाम । यथा । स्मर सुंदराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम्‌ । परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति मञ्जुभाषिणी ॥ ७८

इह नंदिनी सजससर्गुरुयु्तैः । ७९. सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी । ७९ ननतरगुरुभिश्वन्द्रिका चतुर्भिः । ८०

दरौ नगणौ तगणरगणौ गुरुश्च यत्र तदृतं चन्द्रिका नाम । चतुर्भिर्यतिर्यथा । वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां!” भिनत्ति मानम्‌ । ततमपि भुवनं चन्द्रिका भ्रवस्थाधवलितमिव चक्रे शरन्निशासु ॥ अष्टभिर्यतिरित्येके । ८०

शक्वर्याम्‌

म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा । ८१

मगणतगणनगणसगणा द्वौ गुरू च यत्र तदृत्तं असंबाधा नाम । अक्षैरिन््रियैः पञ्चभिरगरहैर्मवभिश्च यतिः । यथा |

यावद्रच्छेयं दयितविहितसंकेतस्थानस्याभ्यां सड़कृतनिवृततुलाकोटिः । तावच्चक्रेऽग्रे द्रुतमुदयमयं वैरी भित्वा संबधान्यपि सि तिमिराणीन्दुः ॥ ८१

ननरसलघुगैः स्वरैरपराजिता । ८२

दौ नगणौ रगणसगणलघुगुरवो यत्र तदृत्त अपराजिता नाम ।


19 पांऽ ऽद्लाऽ {0 ए८ ¶ल [रटत ट्छ ए$ 06 ल्जाााालयावज. ” टीकायामुदाहरणं नास्ति । 11 पाठे तमड़ववतिनाना ।

45

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४५&oldid=371611" इत्यस्माद् प्रतिप्राप्तम्