पृष्ठम्:SukavihRdayAnandinI.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्जलौघाः"% | विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ ७३

अतिजगत्याम्‌ ।

तुरगरसयतिर्नौ ततौ गः क्षमा । ७४

यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तदृ्ं क्षमा नाम । यथा ।

सप्तभिः षड्भिश्च यतिः । यथा ।

चकितमृगदृशा नेक्षितो लीलया त्रिवलरितवदनश्रीचयाहं मुहः ।

न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ ७४

म्नौ जौ गखिदशयतिः प्रहर्षिणीयम्‌ । ७५

मगणनगणजगणरगणगुरवो यत्र तदृत्त प्रहर्षिणी नाम । त्रिभिर्दशभिर्यतिः । यथा । लोलाक्षी विपुलनितम्बबद्वकाञ्ची पीनोच्चस्तनयुगला सुरोमराजिः । नृत्यन्ती सुललितमंगहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम्‌ ॥ ७५

पाठान्तरम्‌ ।

चतुर््रहैरिह रुचिरा जभौ स्यौ गः । ७६ चतुर््रहैरिह रुचिरा जभैस्जगाः । ७६९ जगणभ्रगणसगणजगणा गुरुश्च यत्र तदत रुचिरा नाम । यथा ।

समीहते य इह परापदापदं वियच्छरितटरुचिरोटजालयः । मृगीदशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत्‌ ॥ ७६

वेदै रन्धरैम्तौ यसगा मत्तमयूरम्‌ । ७७

यत्र मगणतगणयगणसगणगुरवस्तदत्तं मत्तमयूरम्‌ । चतुभिर्नवभिर्यतिः । यथा । चजञ्चं चूतं पुष्पितक'% केल्लितरूभिः क्रीडत्क्रोडं संचरदुन्मत्तमृगोधम्‌ । स्निग्धच्छायं वारिततापं तरुखण्डैः मादयद्धृगं मत्तमयूरं वनमेतत्‌ ॥ ७७


^ पाठे मृदुतरतामरसारुणपादव्रणतितिविसवदमस्रजलौघाः ।

161 (78 इल्ला15 0 € ¶€ रटलि€त्‌ ट्टा एर (€ लाला. प्ल 185 1 हाज्ला लडवाल ग € जिल पद्वती

५ पाठे पुष्पितंकं ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४४&oldid=371610" इत्यस्माद् प्रतिप्राप्तम्