पृष्ठम्:SukavihRdayAnandinI.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33

प्रमाणिका जरौ लगौ । १९

जगणरगणौ लघुगुरू यत्र तदृत्त प्रमाणिका नाम । यथा । प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिशुकः | वसत एष साप्रतं प्रमाणिकाऽत्र कोकिला ॥ १९

[चम्पकमाला चेद्धमसा गः । २०

137 २०

भरगणमगणसगणाः गुरुश्च यत्र तदृतं चंपकमाला नाम |]

[ नाराचक तरौ लगौ । २१

तगणरगणौ लघुगुरू च यत्र तदृतं नाराचकं नाम । यथा | 11 २१

वितानमाभ्यां यटन्यत्‌ । २२

आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यदष्टाक्षरं छन्दस्तद्धितानं नाम । आभ्यां यदन्यदिति ब्रुवन्‌ सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात्‌ | यथा |

ज्योत्स्नावितानमेैन्दवं"* पश्य प्रिये मनोरमम्‌ ।

कोपं त्यज प्रियं भज स्रीणां प्रियं हि यौवनम्‌ ॥

अन्यच्च |

तस्याः स्मरामि सुंदर चन्द्रौपमानमाननम्‌ ।

कंदर्पचापभगुरं श्रुतिभ्रमोपशोभितमिति ॥

अपि च |

कंकात्रमालधारणं कदर्षदर्पहारिणम्‌ ।

संसारबन्धमोचनं वदामहे त्रिलोचनम्‌ ॥

“अन्यदतो हि वितानमि'ति श्वेतपटजयदेवेन यदुक्तम्‌ । 1 इत्यनेन गतार्थत्वात्‌ । २२


1 'वसंतः"एषःमध्ये पाठे दृश्यते । उदाहरणं नास्ति ।

138 उदाहरणं नास्ति ।

    • पाठे ज्योत्स्नावितानमेदवं ।

140 पाठे अत्र “भौ गिति चित्रपदा गः' इति दृश्यते । तदसंगतत्वान्न निर्दिष्टम्‌ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३३&oldid=371598" इत्यस्माद् प्रतिप्राप्तम्