पृष्ठम्:SukavihRdayAnandinI.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32

दरौ मगणौ द्वौ गुरू च यत्र तदृत्तं विद्युन्माला नाम । यथा ।

चतुर्भिर्यतिः*“ । यथा ममैव छदसि ।

मौ गौ वेदैर्वियुन्माला ।

व्योम्नि व्याप तप्तरेखानाकुर्वन्ती वंग्यांमानमां त्वां" भर्तुः स्रीणां जागर्यका विद्युन्माला ॥ (2?) १४

भो गिति चित्रपदा गः | १५

अगणद्रयं गुरू च यत्र तदृतं चित्रपदा नाम । यथा |

नूपुरशब्दमनोजं ताललयान्वितमीतम्‌ । पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम्‌ ॥ १५

माणवकं भत्तलगाः । १६

भगणतगणलघुगुरवो यत्र तदृतं माणवकं नाम । यथा । वाञ्छसि शं चेद्विपुलं तर्हिं सखे मुञ्च शठ -

मेधा कि ज्ञास्य रुचिं" मित्रमपि त्वचपलम्‌ ॥ (?) चतुर्भिर्यतिरित्याम्नायः । माणवकाक्रीडितमिति पिंगलः । १६

म्नौ गौ हसरुतमेतत्‌ । १७

यत्र मगणनगणौ दौ गुरू तदृतं हंसरुतं नाम । यथा । दृष्टवा कासकुसुमानि श्रुत्वा हसरुतमेतत्‌ । कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ १७

जौ समानिका गलौ च । १८

रगणजगणौ गुरुलघू च यत्र तदृतं समानिका नाम । यथा । ते समानिका च यान्ति शत्रवो भयेन धीर । राजसंपद विहाय यय्यजेयबाहवोऽपि ॥ १८


  • पाठे चतुर्यतिभिः

» अशुदधत्वात्पदविच्छेदः कर्तुमशक्तोऽस्मि । 1 पाठे शठमेधाकिजल(जा)स्यरुचिं इति । पटविच्छेदे दोषोऽपि भवेत्‌ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/३२&oldid=371597" इत्यस्माद् प्रतिप्राप्तम्