पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|| श्रीहनुमते नमः ||
भूमिका
सिद्धान्तज्योतिर्गतमहमालोकं यदाशिषा किश्चित् ।
प्रापं परमं श्रीगुरुमवधबिहारित्रिपाठिनं वन्दे ॥ १ ॥
देव्याः श्रीसङ्कटाख्यायाः प्रसादसदृशं वरम् ।
श्रीसङ्कटाप्रसादं वै गुरुं वन्दे यशस्करम् ॥ २ ॥
सर्वविदितमेवैतद् भारतीयानां विपश्चितां यदिह जगति जनिमत स्वतः श्रेयो-
मार्गप्रदर्शको वेद एव । समग्रं ज्ञानं वेदेषु सन्निहितमस्तीति भारतीया अपरे विद्वांसश्च
मन्वते । अत्रान्वेषयतां सतां याथार्थ्येन कश्चिदपि विषयो नानुपलभ्यो वर्तते । वेदस्यास्य
ज्ञानप्रवर्तकानि तत्षडङ्गभूतानि शिक्षा - कल्प- व्याकरण-ज्यौतिष-निरुक्त-च्छन्दःशास्त्राणि
प्रचक्ष्यन्ते । तथा चाह भास्कराचार्य :-
3
शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी
या तु शिक्षास्य
श्रोत्रमुक्तं निरुक्तञ्च कल्पः करौ ।
वेदस्य सा नासिका
पादपद्मद्वयं छन्द - आद्यैर्बुधैः ॥
इत्यनेन षडङ्गेषु ज्यौतिषस्य परिगगनं वर्तते । षडङ्गेषु कथमवस्थानमाचार्य-
भास्करेण कृतमिति प्रश्नस्थापि समाधानं तरेव विहितमस्ति । यथा -
वेदास्तावद्यज्ञकर्मप्रवृत्ता
यज्ञाः प्रोक्तास्ते तु कालाश्रयेण |
शास्त्रादस्मात् कालबोधो यतः स्याद्
वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ॥ २
अस्मान् वेदो यज्ञं प्रति प्रवर्तयति । सुष्ठुकाले कृतमेव यज्ञादिकर्म साफल्यं
अकाले विहितं कर्म वैफल्यं प्रयातीति कालज्ञानं ज्योतिश्शास्त्रादेव जायते,
भजते,
१. सि० शि० ग्र० ग० का० मा० १० श्लो० ।
२. सि० शि० ग्र० ग० का० मा० ९ श्लो० ।