पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिः ५२९ ज्याधंम् । तत्कोटिज्या तु षोडशम् १६ । शरवेदांशज्या द्वादशम् १२ । अथाष्टमात् तद- धशप्रकारेण चतुर्थम् ४ । तत्कोटिज्या विशम् २० । एवं चतुर्थात् द्वितीयं २ द्वाविश च २२ । द्वितीय.दाद्यं १ त्रयोविंशं च २३ । विशतितमाद्दशमं १० चतुदंशं च १४ | वश- मात् पञ्चमं ५ एकोनविंशं च १९ । द्वाविंशादेकादशं ११ त्रयोदशं च १३ । चतुवंशात् सप्तमं ७ सप्तदशं च १७ । अथ द्वादशात् षष्ठ ६ मष्टादशं च १८ । षष्ठात् तृतीय - ३ मेकविशं च २१ | अष्टादशान्नवमं ९ पञ्चदशं च १५ । त्रिज्या चतुर्विंशमिति । एवं किल पूर्वेरन्यज्यासाधनमुक्तम् । इदानीं विनाप्युत्क्रमज्ययाभिनवप्रकारेणाह– त्रिज्याभुजज्याहतीत्यादि । त्रिज्याभुज- ज्याघातेन त्रिज्याकृतिरेकत्रोनान्यत्र युता । द्वे चाधिते । तयोर्मूले । आद्यं भुजोनखां- शानां दलस्य ज्या द्वितीयं भुजाढ्यखाङ्कांशानां दलस्य | एवमतोऽप्यन्याः । तद्यथा । अष्टमात् षोडशं १६ ज्यार्धम् । षोडशाच्चतुर्थं ४ विशं च २० । चतुर्थाद्दशमं १० चतुवंशं च १४ । एवं सर्वाण्यपि । प्रकारान्तरमाह यद्दोज्यंयोरन्तरमित्यादि । इष्टदोज्यंयोर्यदन्तरं कोटिज्ययोश्च यत् तोक्यमूलदलं भुजयोरन्तराधंस्य ज्या भवति । एवमन्ययोरन्यान्याः । यथेका किल चतुर्थी ४ । अन्याष्टमी ८ दोर्ज्या ताभ्यां द्वितीया २ सिध्यति । द्वितीयाचतुर्थीभ्यां प्रथमे १ त्यादि । तथा दो कोटिज्ययोरन्तरवगंदलस्य मूलं दो: कोटिभागान्तराधंस्य ज्या स्यात् । यथा- ष्टमी ८ दोर्ज्या | षोडशी १६ कोटिज्या | ताभ्यां चतुर्थी ४ स्यादित्यादि । अय मूलग्रहणक्रियया विनापि दो: कोटिभागान्तरज्यानयनमाह- -दोर्ज्याकृतिरि- त्यादि । दोर्ज्यावर्गस्त्रिज्यार्थेन भक्त: । तस्य त्रिज्यायाश्च विवरं दो: कोटघन्तरस्य ज्या स्यात् । कानिचिदेवमत्र ज्यार्थानि साध्यानि तद्यथा | यत्र किल त्रिशज्ज्यार्थानि तत्र त्रिज्याधं दशमम् १० । तत्कोटिज्या विंशतितमम् २० । शरवेदांशज्या पञ्चदशम् १५ । षत्रिंशवंशज्या द्वादशम् १२ । तत्कोटिज्याष्टादशं १८ ज्यार्धम् । अष्टादशभागानां ज्या षष्ठम् ६ । तत्कोटिज्या चतुर्विंश २४ मिति । क्रमोत्क्रम ज्याकृतियोगमूलादित्या- दिना पूर्वोतप्रकारेण दशमात् पञ्चमम् ५ । तत्कोटिज्या पञ्चवंशम् २५ । एवं द्वादशात् षष्ठं ६ चतुर्विशं २४ च । षष्ठात् तृतीयं ३ सप्तवंशं २७ च । अष्टादशान्नवम ९ मेक- विशं २१ च एतान्येवानेन प्रकारेण सिध्यन्ति नान्यानि । अत उक्तं कानिचिदेवमत्रेति । यद्दोर्ज्ययोरन्त रमित्यादिप्रकारेण । अतोऽत्र पञ्चम ५ मेका दोर्ज्या नवम ९ मन्या | आभ्यां यद्दोर्ज्ययोरन्तर मित्यादिना प्रकारेण भुजयोरन्तरार्धस्य ज्योत्पद्यते । तच्च द्वितीयं २ ज्या- धंम् । तत्कोटिज्याष्टाविंशम् २८ । आभ्यां क्रमोत्क्रमज्याकृतियोगमूलाद्दल मित्यादिप्रकारेणाद्यं १ चतुर्दशं १४ च । एवमन्याश्चतुदंश सिध्यन्ति । अथ ज्याभावना | सा च द्वधा । एका समासभावना | अन्यान्तरभावमा । तद- थंमाह | स्वगोङ्गेषुषडंशेनेत्यादि । यत्र किल वसुत्रिवेदाग्नि ३४३८ तुल्या त्रिज्या नव- तिश्च ज्यार्थानि तत्र तावदुच्यते । तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्या तरकोटिज्या च पृथक् स्थाप्या | भुजज्या स्वनवर्षाडिषुरस ६५६९ विभागेन रहिता कार्या । कोटिज्या तु दशगुणा सि० – ६७