पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ गोलाध्याये अस्य चिह्नस्य द्युरात्रवृत्तवद्बद्धवृत्तस्य सम्पातेऽभीप्सितं पुरं कल्प्यम् । अस्मा- त्पुरचिह्लादपसारयोजनकोटिज्यातुल्य एव लम्बः । स एव शङ्कः । धुरात्रवृत्तबद्धवृत्त- क्षितिजसम्पातावधिपूर्वस्वस्तिकात् क्षितिजेऽग्रा । एवमुन्मण्डले क्रान्त्यंशरूपाः पलांशाः सममण्डलेष्टपुरचिह्नयोर्याम्योत्तरमन्तरं भुजः शङ्कतलाग्रा संस्कारतुल्यः । इयमग्रा क्षितिजे यावती तावत्येव दिग्ज्या | क्षितिजे शङ्कृतलाभावात् । खस्वस्तिकात् क्षिति- जपर्यन्तमपसारयोजनलवज्या त्रिज्यातुल्या | ५०० यदि त्रिज्यातुल्ययापसारयोजनलवज्यया दिग्ज्यातुल्यो भुजस्तदेष्टया किमि - त्यनुपातेन भुजो भवति। द्वादशकोटौ पलभाभुजस्तदेष्टापसारलवकोटिज्यया किमिति शङ्कतलं भवति । भुजशङ्कतलसंस्कारादग्रा कृता । पलकर्णे द्वादशकोटिस्तदाग्रया किमिति क्रान्तिज्या रूपा पलज्या तद्धनुरक्षांशाः । एवं दिग्ज्याप्रष्टव्यपुराक्षांशज्ञाने चोज्जयिन्यक्षांशज्ञानेऽपसारयोजनलवज्ञानम् । तद्यथा—प्रष्टव्यपुराक्षांशज्योज्जयिनीस्थपलकर्णगुणा द्वादशभक्ताग्रा कल्प्या । ततो 'व्यासार्द्धवर्गः पलभाकृतिघ्नी दिग्ज्याकृतिर्द्वादशवर्गनिघ्नी । तत्संयुतिः स्यात् प्रथमस्ततोन्यस्त्रिज्याक्षभाग्राभिहतिस्ततस्तौ । दिग्ज्याग्रयोर्वर्गवियोगभक्तौ यदन्यवर्गेण युताद्यराशेः । स्वदं तदन्योनयुतं श्रुतिरिति । यः छायाकर्णो भवति तस्मात्, छायाकर्णे छायाभुजस्तदा त्रिज्याकर्णे को भुज इति दृग्ज्या भवति । दृग्ज्यैवापसारलवज्येति स्पष्टम् । अत्र पलभाप्युज्जयिनीस्थैव । उज्जयिनींमध्यरेखोपलक्षिका । मध्यरेखातः पूर्वपश्चिमस्थितनगरात् तादृशान्यनगरा- पसारघोजनलवज्ञानं तादृशगोलबन्धादिना प्रोक्तप्रकारादन्यप्रकारेण सुधीभिरूह्यम् । यथा—‘गोदावरीतीरविराजमानादात्मतीर्थाद्' वाराणसी कियद्भिर्योजनेरी- शानदिग्विभागाश्रित प्रश्ने यत्र रेखापुरे स्वाक्षतुल्य: पलस्तन्निजस्थानमध्यस्थत- योजनान्यात्मतीर्थस्थानि काशीस्थानि च ज्ञातव्यानि । आत्मतीर्थस्थो ‘लम्बज्यागुणितो भवेत् कुपरिधिः स्पष्टस्त्रिभज्या हृत' इति स्पष्टभूपरिधिर्ज्ञेयः । एवं वाराणसीस्थोऽपि ज्ञेयः । तत आत्मतीर्थस्य यद्रेखानगरं तदक्षांशवशेन गोलबन्धः कार्य: तद्रेखानगरं खस्वस्तिके कल्प्यम् । आत्मतीर्थस्थाक्षांशतुल्यक्रान्त्या तुल्यान्तरं सर्वत ईदृशं नाडी- मण्डलादुत्तरतो धुरात्रवृत्तवद्वृत्तं बन्धनीयम् । तदात्मतीर्थीयं स्पष्टभूवेष्टनवृत्तं भवति । स्पष्टभूपरिधियोजनाङ्कं च तत्कार्यम् । यान्यात्मतीर्थे देशान्तरयोजनानि पूर्वाणि राण वा तैः खस्वस्तिकात्तस्मिन् वृत्ते चिह्नं कार्यं तदात्मतीर्थस्थानं भवति । एवं वाराणसी- स्थाक्षांशतुल्यक्रान्त्या बद्धे नाडीमण्डलादुत्तरतो वृत्ते तवृत्तयाम्योत्ररवृत्तसम्पाताद् वाराणसीस्थदेशान्तरयोजना पूर्वविभागे चिह्न कार्यं तदेव विश्वेशितुः सुरनदीतीर- विराजमानं वाराणसीनगरम् | १. सि०शि० ग्र० त्रि० ४९ श्लो० i २. फलमिति क ख ग० पु०