पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन सरस्वतीभवनस्थानां महत्त्वपूर्णानामप्रकाशि-
तानां पाण्डुलिपीनां मुद्रणाय तथा दुर्लभानां मुद्रितग्रन्थानां पुनः प्रकाशनाय चैका योजना
पञ्चमपञ्चवर्षीय योजनायां विश्वविद्यालयानुदानायोगसमक्षं प्रेषिताऽऽसीत् । आयोगेन
च नियोजितस्य निरीक्षकमण्डलस्य संस्तुतिमनुसृत्य प्रकाश्यमानग्रन्थानां महत्तां
चोररीकृत्य स्वीकृतिः प्रदत्ता । अस्यां प्रक्रियायां वर्षद्वयं व्यतीतम् । अवशिष्टाया
योजनावधेरल्पत्वात्, अत्रत्यप्रकाशनविभागे कार्यबाहुल्यात्, योजनायाश्च सरस्वतीभवन-
• द्वारा प्रस्तुतत्वात् कार्यस्य शीघ्रमेव सम्पादनाथं कुलपतिना निम्नाकितानां विश्व-
विद्यालयीयविदुषामेका समितिनिर्मिता ।
अध्यक्षः
प्रो० बदरीनाथशुक्ल: ( कुलपतिः )
सदस्या:
१ - प्रो० जगन्नाथोपाध्याय: (पालि विभागाध्यक्षः श्रमणविद्यासंकायाध्यक्षश्च )
२ – श्रीव्रजवल्लभ द्विवेदः ( योगतन्त्रागमविभागाध्यक्षः)
३ – डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' ( निदेशक: अनुसन्धान-
संस्थानस्य )
४ – श्रीबलिरामशास्त्रो भारद्वाज: ( उपपुस्तकाध्यक्षः, हस्तलिखितानुभागे )
५ – श्रीजनार्दनपाण्डेय: ( सरस्वतीभवनस्थः )
६ – श्रीलक्ष्मीनारायणतिवारी ( ग्रन्थाध्यक्षः, समितेः संयोजकः )
संयोजकस्य श्रीलक्ष्मीनारायणतिवारिणः सततप्रयत्नेन अनया समित्या प्रकाश-
नार्ह ग्रन्थानां चयनम्, तेषां सम्पादनव्यवस्था, मुद्रणव्यवस्था च तत्परतया सम्यक्
प्रारब्धा ।
अस्यामेव योजनायां प्रकाश्य प्रस्तूयतेऽयं सिद्धान्तशिरोमणिग्रन्थो वासना-
भाष्यवात्तिकसहितः।