पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये यन्त्रप्रकाशे रामेणैवं यन्त्रकरणमुक्तम् । अथवा किं दृक्कर्मानयनप्रयासेन । यत्र केन्द्रं ध्रुवस्थानं तस्मादुपरि याम्यसूत्रे चतुस्त्रिशत्कलाधिकाष्टांशैः क्रान्तिवृत्तकेन्द्र- कदम्बसंज्ञं भवति। ग्रन्थोक्तसायननक्षत्रध्रुवकमक्षता यत दृक्कर्मकं क्रान्तिवृत्ते दद्यात् । ततः कदम्बान् नक्षत्रध्रुवकचिह्न लग्नं पालिवृत्तं यावत्सूत्रं नयेत् । अस्मिन्सूत्रे तन्न- क्षत्रशरज्या खगुणगुणा जिनज्यायुक्तत्रिज्या भाजिता कदम्बसूत्रनक्षत्रध्रुवकसम्पाता- दुपर्यंधो याम्योत्तरशरे सति क्रमेण देया तत्र नक्षत्रचञ्चः कार्या । पूर्वरेखायां केवलं सायनध्रुवके लापिते तच्चञ्चौ चलायितायां द्विस्थानसंलग्न मृगास्यमध्ये दृक्कर्मायनं भवति । अमुष्माद्यन्त्रात् कालादिज्ञाने महेन्द्रसूरिपद्यांनि तथा भुजाग्रं परिचालनीयं यथा पूर्वेऽहनि प्राक्ककुभो भुजाग्रस्पृष्टा त एव मध्यन्दिनतोऽपरांशा 'करेऽपसव्ये विनिवेश्य यन्त्रं ज्योतिर्विदा भास्करसम्मुखेन । विशेत् छिद्रयुगेऽर्कतेजः ॥ रवेरुन्नतभागकाः स्युः। रात्रौ ग्रहोडुष्वपि चैवमेव || रयंव्यंशकं प्रागपरे च भूजे धृत्वोन्नतांशोपरिगे कृतेऽस्मिन् । द्विस्थानसंलग्नमृगास्यमध्ये कालांशकैः पङ्क्तिपलप्रमाणैः ।। षड्भिविभक्तैदिवसस्य यातं शेषं च पट्यादि परिस्फुटं स्यात् । तथोन्नतांशस्पृशि भास्करांशे प्राग्भुजगः सायनलग्नभागः ॥ एवं रवेः सप्तमराशिभागो यत्रैव होरावलयेऽस्ति सैव । होराघुनाथाच्च नतश्च षष्ठं षष्ठस्य गण्या परभूजवृत्तात् ॥ रव्यंशकं प्राक् क्षितिजे निवेश्य चिह्नं मृगास्ये विरचय्य पश्चात् । अभीष्टकाले घटिकोपरिस्थं तदेव धृत्वा परिचिन्तनीयम् ॥ रव्यंशको यत्र हि तुङ्गवृत्ते तदङ्कसंख्यास्तपनोन्नतांशाः । मध्याहृतोऽस्तक्षितिजात्तथैव ते बोधनीया स्वधियाऽवशिष्टाः ॥ विद्धोन्नतांशोपगते च भास्ये व्यंशकेऽस्तेन्द्रकुजस्थिते च । चिह्नद्वयान्तर्गतशेषनाडीपलादिपूर्वापररात्रिभागे M तत्रैव नक्षत्रमुखे निविष्टे प्राग्भूजगं सायनलग्नमेति । सूर्यांशकाधिष्ठितवृत्तसंस्था तदा च होरापि निशि स्फुटा स्थात् ॥ अङ्केश ९ | ११ होरायुजि लग्नभागे खमध्यगौ नैधनधर्मभावौ । द्वितुर्यहोरास्पृशि सप्तमांशे खमध्यगावेव शिवार्कसंख्यौ । रात्रावभीष्टग्रहऋक्षयोश्च विद्ध्वोन्नतांशान्निजभागसंस्थे । स्रंभादिकानामनुविध्य भास्ये ग्रहाप्तोन्नतभागभांशः स्फुटो भवेत्तस्य तदा खगस्य || चाग्रं यन्त्रेण नक्षत्रवदुन्नतायाः । ज्ञप्तेश्च पादाग्रभुवं भुजाग्रमप्यङ्कयित्वा च तदुन्नतांशान् ॥ ज्ञात्वाथ कोष्टद्वितयाच्च शङ्कच्छायां गृहीत्वाऽन्यतरस्य चैकम् । क्षिपन् विकर्षन् स्वधियाऽत्र भूयो भुजाग्रभागेन तदेव विद्ध्वा ।। १. यन्त्र चि० ५ अ० १ ३ श्लो० । ४४८