पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० भा० - व्यनक्तु प्रकाशयतु । कः | सः । स कः | रविः सूर्यः । काम् । गिरं वाचम् | केषाम् । नः अस्माकम् । किं विशिष्टां वाचम् । सूक्तिमुचं सूक्ति मुञ्चतीति सूक्तिमुक्तां सूक्तिमुचम् । कथम् | द्राक् झटिति । किंविशिष्टो रविः । गीर्वाणवन्द्यः । गीर्वाणा देवास्तवन्ध इति गीर्वाणवन्द्यः । पुनः किंविशिष्टो रविः । यत्र यस्मिन् रवाविदं जगत् त्रातुं रक्षितुं निशि मृतपतितमिवोत्थापयितुं समभ्युद्तेऽस्यां पृथिव्यां समभितः समन्तादुद्गते सति वर्त्तते प्रवर्तन्ते । के क्रतवः । यज्ञाः पञ्च महायज्ञा दर्शपौर्णमासयागज्योतिष्टोमादयः यत्र यत्र यदा यदा स भगवानुवेति तत्र तत्र तदा तदा यज्ञा प्रवर्तन्त इत्यर्थः । समभ्युद्गत इत्येवं वदताऽऽचायेंणोदितहोमिनामेव पक्षोऽङ्गीकृत इति नाशङ्कनीयम् । यतोऽनुवितहोमिनामप्युदयात् प्रागासन्न एव यागकाल इति भावः । न केवलं यज्ञाः प्रवर्त्तन्ते । अत एव कारणाद्दीव्यन्ति च क्रीडावन्तो होतन्ते । क्व । विवि स्वर्गे । के | देवाः । किविशिष्टाः | शतक्रतुमुखा इन्द्रादयः । यतस्ते यज्ञांशभुजः । पुनः किंविशिष्टे रवौ । ध्वान्तध्वंसविधौ ध्वान्तमन्धकारस्तस्य ध्वंसं विदधातीति ध्यान्तध्वंसविधि- स्तस्मिन् | पुन: किंविशिष्टे । विधोतविनमन्निःशेषदोषोच्चये विधौत: प्रक्षालितो विनमतां प्रणतानां निःशेषदोषोच्चय: सकलपापसमूहो येन असौ विधौतविनमन्निःशेषदोषोच्चयस्तस्मिन् । पुनः किंविशिष्टे । जलजिनीबन्धौ । कमलिनीबन्धी । अत्र जलजिनीशब्देन कुमुदिन्यपि गृह्यते । यतस्तामपि चन्द्रबिम्बसंक्रान्तै: स्वरश्मिभिरेवोल्लासयतीति । एवं जलजस्थलजादीनां त्रैलोक्यो- धरवत्तनामुपकारप्रकृतिः स गिरं विशतु । अहो एवं विशिष्टादपि भगवतः सूर्यात् किं वाङ्मात्र- स्याशंसनं कृतम् । सत्यं तवप्युच्यते । इह हि कवीनां काव्यरचनोधतानां सद्वाक्यप्रवृत्तिरेवा- भीष्टमिति भाव ॥ १ ॥ । ४ ॥ श्री गणेशाय नमः ॥ वा० वा० – यस्मात् सर्वमिदं जगत्समुदितं स्वोत्सृष्टभूतैः पुरं, कृत्वा तत्र निविश्य मानसगुणान् स्वस्मिन् वृथा मन्यते । स्वाज्ञानादिव बद्ध मुक्त इति यं वेदो निषेधावधिम्, ब्रह्मत्याह न वेद कश्चिदपि यं प्रेमास्पदं गङ्गाधरायाऽमितविक्रमाय, त्र्यक्षाय सर्वाय' त्रिशूलहस्ताय नमः शिवाय सुरेन्द्रवन्द्याय जटाधराय ॥ २ ॥ नमामि लक्ष्मीपतिमिन्द्रवन्द्यमुपेन्द्रमिन्द्रावरजं गदारथाङ्गाब्जसुशङ्खहस्तं सुपर्णपृष्ठोपरिगं दिगम्बराय । चतुर्भुजम् । वरप्रदम् ।। ३ ।। यां मूलप्रकृति जगाद कपिलो वेदान्तिनो यां महा- मायामित्यपरे हरस्य गृहिणीं त्रैलोक्यरक्षाकरीम् । भक्तापद्विनिवारिणीं सुरगणैर्वन्द्यामनिन्द्यां जग- द्वन्द्यां तां प्रणमामि विश्वजननीं वेदैविमृग्यां पराम् ॥ ४ ॥ २. गृहिणां ख, ग, पु० १. शर्वाय ख, ग, पु० भजे ॥ १ ॥