सिद्धान्तशिरोमणी गोलाध्याये वा० भा० -- धातुमयं दारुमयं वा समं चक्रं कृत्वा तन्त्रेभ्यां शृङ्खलाबिराधार: शिथिल: कार्यः । चक्रमध्ये सूक्ष्मं सुषिरमाधारात् सुषिरोपरिणामिनी लम्बवदूर्ध्वरेखा कार्या । तन्मत्स्यतो- उन्या तियंग्रेखा चात्र कार्या । तच्चक्रं परिधौ भगणांशरङ्कयित्वाधारात् त्रिभ इति नवति- भागान्तरे तिर्यग्रे खातत्परिधिसंपाते धात्री क्षितिः कल्प्या भाषेंऽन्तर ऊर्ध्वरेखा नेमिसंपाते खाधं कल्प्यम् । सुषिरे सूक्ष्मा शलाका प्रवातव्या । सा चाक्षसंज्ञा । तच्चक्रमर्काभिमुखने मि च यथा भवति तथाधारे धार्यम् । तथा धृतेऽक्षस्य छाया परिक्षौ यत्र लगति तत्कुजचिन्ह- योरन्तरे येंऽशास्ते रवेरुनतांशाः ये छायाखार्धयोरन्तरे ते नतांशा ज्ञेया: । एवमन्त्र नतोन्नतांश- ज्ञानमेव भवति । अतोऽन्यैर्घटिका अप्यानीताः । तद्यथा । तस्मिन् दिने गणितेन मध्यंदिनोन्नतां- शान् दिनार्धमानं च ज्ञात्वानुपातः कृतः । यदि मध्यंदिनोन्नतांशैदिनाधंनाड्यो लभ्यन्ते तदेभिः किमित्येवं स्थूला घटिका: स्युः ॥ १०-१२ । अथ वेधेन ग्रहज्ञानमाह -- पैत्रर्क्ष पुष्यान्तिमवारुणानामृक्षद्वयं नेमिगतं यथा स्यात् । दुरेऽन्तरेऽल्पेषु भखेचरौ वा तथात्र यन्त्र सुधिया प्रधार्यम् ।। १३ । नेमिस्थदृष्ट्याक्षगतं पश्येत् खेटं च धिष्ण्यस्य च योगताराम् । नेम्यङ्कयोरक्षयुजोस्तु मध्ये येंऽशाः स्थिता मधु वको युतस्तैः ।। १४ । प्रत्यक् स्थिते भेऽथ पुरःस्थिते तैहींनो ध्रुवः स्यात् खचरस्य भुक्तम् । वा० भा० - तत्र यन्त्रस्याधोनेम्यां दृष्टि कृत्वोर्ध्वनेम्य मुक्तक्षणां मध्ये भद्वितयं युगपन्ने- मिगतं यथा स्यात् तथा यन्त्रं स्थिरं कृत्वा नेम्यां धिष्ण्योरेकतरं स्थानमयेत् । ततोऽये पृष्ठतो वा दृष्टि चालयित्वा ग्रहं विध्येत् 1. ग्रहः प्रायोऽक्षगतो दृश्यते । अक्षमूलस्य ग्रहस्य चान्तरं शरो ग्रहावधिः । अक्षमूलं नेम्यां यत्र लग्नं दृश्यते तत् स्थानमप्यङ्क्यम् । अथ भग्रहाङ्कयोमंध्ये यँऽशास्तभंध्रुवो युतः स्फुटग्रहो भवति । यदा ग्रहात् पश्चिमस्थं नक्षत्रम् | यदा पूर्वस्थं नक्षत्रं तदा भध्रुवो होनः स्फुटग्रहो भवति । अथवाल्पशरं नक्षत्रं रोहिण्याद्यं ततो दूरेऽन्तरे यवा ग्रहस्तदा तावेव विद्ध्वा प्रोक्तवद्ग्रहज्ञानम् । इति चक्रयन्त्रम् ।। १३-१४३ । वा० वा० – 'चक्रयन्त्रमाह चक्रमिति | तन्मध्ये सूक्ष्माक्षमिति । तदिति । २ पैत्र्यर्क्ष पुष्पान्तिमवारुणानामिति । नेमिस्थदृष्ट्येति । प्रत्यक् स्थिते भ इति । दृङ्मण्डले प्रस्फुटकाल उक्त इति । इदमेव चक्रयन्त्र मक्षपत्रभपत्रयुतं यन्त्रराज इत्याहुः । १. अत्र लल्लोक्तिः शिष्यधीवृद्धिदे-- वृत्तं कृत्वा फलकं षड्वर्गाङ्कं तथा च षष्टकम् । मध्यस्थितावलम्बं मध्यस्थित्या प्रविष्टोष्णम् ॥ २० ॥ तदधो लम्बविमुक्तं गृहादि यत्तदुदितं दिनकरांशात् । नाडय: पूर्वंकपाले घुगतास्ता पश्चिमे चुदलात् ॥ २१ ॥ २. पित्र्यक्षं इति० क ख ५० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८६
दिखावट