केनचिदाधारेण ध्रुवाभिमुखकीलकेत्र धृते । अथवा कीलच्छायातलमध्ये स्युर्नता नाडयः ॥ ७॥ यन्त्राध्यायः वा० भा० - अत्र चारुदारुमय मिष्टप्रमाणं चक्राकारं सभं नेम्यां षष्टिघटिकाङ्कं यन्त्र खगोलमध्यस्थायां ध्रुवयष्टौ पृथ्वीमध्यस्थाने प्रोतं कार्यम् । तथा स्वोदयप्रमाण मेंषादिराशिभिरसमे- रुभय शश्व॒योः षड्वर्गेण च बुद्धिमताङ्कनीयम् । तैश्चोदयविलोमैरङ्कघम् । मेषात् पश्चिमतो वृषों वृषात् पश्चिमतो मिथुन इत्यादि । स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे यथा मया पठितः । १. वृतो चक्रभार्गस्तदन्तघंटीभि: स्वदेशोदयंश्चाङ्मयेदस्य पाश्वम् । प्रतिस्वोदयं खाग्निभिः क्षेत्रभार्गस्त्रिभागाभिधैर्द्वादशांशनवांशः ।। त्रिभागद्विभागैस्तथा स्वस्वनाथैः प्रयत्नेन षड्वर्गमेवं विभज्य | एवं यन्त्रं कृत्वा यस्मिन् दिने तेन कालज्ञानं तस्मिन् दिने यावानयिको रविस्तद्भु- कान् राशीन् मेषादेदत्त्वा भुज्यमानराशेर्भागान् क्षेत्रभागेषु दत्त्वा रविचिह्नं कार्यम् । तस्मिन् दिन उदयकाले यष्टिच्छाया या पश्चिमतो गता तस्यां छायायां रविचिह्नं यथा भवति तथा यन्त्रं स्थिरं कार्यम् । ततोऽनन्तरं रविधंथा यथोपरि याति तथा तथा छायाधो गच्छति । छायाकंचिह्न- योर्मध्ये या घटिकास्ता दिनगता ज्ञेयाः । तथा यष्टिच्छायायां यो राशियें च क्षेत्रांशास्तल्लग्नं ज्ञेयम् । स च षड्वर्गः । अथवा कि खगोलान्तःस्थेन यष्टिप्रोतेन । चक्रान्तरिष्टप्रमाणं कीलकं प्रोतं कृत्वा स कीलको ध्रुवाभिमुखो यथा भवति तथा केनचिदाधारेण चक्रं स्थिरं कार्यम् । तथा कृत इष्ट माले कीलच्छाया यत्र लगति तस्य यन्त्राधश्चिह्नस्य च मध्ये नतनाडिका ज्ञेयाः । इति नाडीवलयम् ।। ५-७। वा० वा० -- अथ नाडीवलयमाह - अथो खगोलनलिकान्त इति । व्यस्तै- रिति । केनचिदाधारेणेति । सर्वतो भद्राख्यं यन्त्रान्तरं मया कृतमस्तीति ज्ञापनार्थं स चाङ्कनप्रकारः सर्वंतोभद्रयन्त्रे मयोक्त इत्युक्तम् ।। ५-७ । अथ घटिकामाह- अत्र बापूदेवः - ४४१ घटदलरूपा घटिता घटिका ताम्री तले पृथुच्छिद्रा । युनिशनिमञ्जन भत्या भक्तं धुनिशं घटीमानम् || ८ | इदमेव नाडीवलयं क्षितिजे प्रकल्पितं चेच्छायायन्त्रं भवति । २. भगोल इति क ख पु० । ३. अत्र श्रीपतिः- शुल्बस्य दिग्निविहितं पलंयंत् षडङगुलोच्चं द्विगुणायतास्यम् । तदम्भसा षष्टिपलैः प्रपूयं पात्रं घटाधंप्रतिमं घटी स्यात् ॥ सि० - ५६ सि० शे० १९ अ० श्लो० १९ |
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८३
दिखावट