उदयास्तवासना तद्वयस्तं वलने याम्ये व्यस्तं प्रत्यक्कुजेऽप्यतः | आयनं त्रिज्यया चेत् स्यादस्पष्टेन शरेण किम् ॥ ४ ॥ लम्बज्ययाक्षजं चेत् स्याद्वलनं' किं स्फुटेषुणा । इति राशिकाल्लब्धे त्रिज्याघ्ने युज्ययोद्धृते ॥ ५॥ तच्चापैक्यान्तरप्राणैः कुजात् खेटो नतोन्नतः । तैः प्राणैर्यत् क्रमाल्लग्नं नतात् खेटात् प्रजायते || ६ | उत्क्रमेणोन्नताद्यच्च तद्ग्रहोदयलग्नकम् । उक्तव्यत्ययतः प्रत्यगस्तलग्नं सषड्ग्रहात् ॥ ७॥ शरे महति भानां तु चरार्धं मध्यमापमात् । शरस्फुटात् तथा कृत्वा तच्चापैक्यान्तरासुभिः ।। ८ । विभिन्नैकदिशोर्विद्यादक्षजेन नतोन्नतम् । आयनाक्षजयोर्योगवियोगाल्लग्नमुक्तवत् ॥ ९ । वा० भा० – अत्र गोले यथोक्तं क्रान्तिमण्डले विमण्डले च ग्रहं दत्त्वा विमण्डलस्थग्रहो- परि ज्यावृत्ते च बद्धे यथेयं दृक्कर्मोपपत्तिः सुखेन बालैरपि बुध्यते तथायं सूत्रपाठः कृतोऽतः सुगमा । तथा प्रहच्छायाधिकार इयमुपपत्तिः सम्यक् कथितेव ॥ ३-९ । अथ शरस्यं स्पष्टीकरणमाह - सत्रिराशिग्र हद्युज्यानिघ्नत्रिज्योद्घृतः शरः । स्फुटोऽसौ क्रान्तिसंस्कारे दृकर्मण्यतजे तथा ।। १० । -- ४३३ वा० भा० - अयं संक्षिप्तो गौणप्रकार: । मुख्यस्तु पूर्वं व्याख्यात एव । तथापोह युक्ति- मात्रमुच्यते । विषुववृत्तात् क्रान्तिध्रुवाभिमुखी | क्रान्त्यग्राच्छर: कदम्बाभिमुखः । कथं तेन तिर्यक स्थेन सा संस्कार्या | अतः क्रान्त्यग्रे यय ज्या वृत्तं तस्य शराग्रस्य च यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति । तच्चान्तरं कोटिरूपम् । शरः कर्णरूप: । तद्वर्गान्तरपदं द्य ज्यावृत्ते भुजः । एतत् त्र्यस्त्रं दिग्वलनजत्र्यस्त्रसंभवम् । तत्र सन्त्रिराशिग्रहक्रान्ति: कदम्बध्रुव- सूत्रयोरन्तरम् | तज्ज्या भुजः । तद्ध ज्या कोटिस्त्रिज्या कर्ण: । यदि त्रिज्ययेयं कोटिस्तदा शरेण केत्युपपन्नम् । कोटिरूपस्यैव शरस्य ध्र वोन्मुखस्य ज्ययाक्षजं दुवकर्म क्तुं युज्यते । शेषोक्तिः स्पष्टार्था ।। १० । १. अत्र बापूदेव:- चरांशखाङ्कान्तर शिञ्जिनीघ्नी लम्बांशजीवा त्रिभजीवयाप्ता | तच्चापखाङ्कान्तरभागतुल्यं कुजे भवेत् तद्वलनं पलोत्थम् || २. अत्र परमाल्पद्युजीवाघ्नो ग्रहद्युज्योद्धृतः शर इति पाठः साधुः । सि०–५५
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७५
दिखावट