पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना ४३१ यत्र ग्राह्यकेन्द्रं तस्मात्प्रदेशादस्य व्यासस्य कुत्र स्पर्शादिकमिति विचार्यम् । तत्र ग्राह्य- केन्द्रात् तद्विम्बनेम्यनुगतसममण्डलप्राच्याः क्रान्तिमण्डलानुसारिणी प्राची बिम्बनेमि- 'गता यावतान्तरे या वलति तद्वलनमिति प्रसिद्धम् । इदं स्पष्टवलनमायनाक्षवशेन सञ्जातवलनसंस्कारेण भवति । तत्र ग्राह्यनेमिगतनाडीमण्डलप्राचीवलनं सममण्डल- प्राच्यास्तदाक्षवलनम् । ग्राह्यनेमिगतनाडीमण्डलानुसारिप्राच्याः तन्नेमिगतक्रान्ति- मण्डलानुसारिप्राचीवलनमायनम् । यत्र केन्द्रं तस्मात् त्रिज्यया कृतवृत्तनेम्यां पूर्वा- दिचिह्नमिति प्रसिद्धम्। त्रिज्यावृत्तोत्पन्नवलनं ग्राह्यबिम्बव्यासार्द्धपरिणतं ग्राह्यबिम्बे स्यात् । तत्र विषुवत् क्रान्तिवृत्तसम्पातस्थे ग्राह्यकेन्द्रे त्रिज्यावृत्तसम्पातस्थे ग्राह्य केन्द्रे त्रिज्यावृत्तोत्पन्नमायनवलनं परमक्रान्तितुल्यं स्यादिति प्रतिपादयति- तुलाजा- द्योरिति । सम्पातस्थविषुववृत्तयाम्योत्तरध्रुवयोः स्यात्सम्पातस्थक्रान्तिवृत्तावय- वस्य दक्षिणोत्तरध्रुवाज्जिनलवान्तरस्थयोः स्यादिति परममायनं वलनं तत्रेत्याह-- आयनं वलनमिति । - अयनसन्धौ स्थिते ग्राह्यकेन्द्रे लङ्कात उज्जयिनीतश्च कुचतुर्थभागे प्राच्यां यमकोटिरेव भवतीति न्यायेन दक्षिणोत्तरैक्यमित्याह एकैवेति । - याम्योत्तरैक्ये पूर्वंपश्चिमैक्याद्वलनाभावोऽन्यत्राऽनुपातेनानेन साध्यमित्याह - एकैवेति । जिनज्याघ्नीति । अनेनैवाक्षवलनं वदति । एवमिति उन्मण्डलमिति । क्षितिजेऽक्षज्यया तुल्यमिति । याम्योत्तरस्थे ग्राह्यकेन्द्रेऽक्षवलनाभाव इत्याह -तयोरिति । क्षितिजयाम्योत्तरवृत्तान्तस्थे ग्राह्य केन्द्रेऽनुपातेन साध्यमित्याह - - नतक्रम- ज्ययेति । कथं साध्यमिति दर्शयति - नतमिति । आक्षवलनदिग्ज्ञानमाह प्रागिति । लल्लेनोत्क्रमज्यया वलनं साधितं तद्दूषयाति - न स्पष्टवलनाभाव इति । प्रकारान्तरेणाह--सर्वंत इति । तत्रेति, गोल इति । तत्तिर्यगिति । सूत्राणीति । कदम्बध्रुवसूत्रान्त इति । तृतीयप्रकारेणोपपत्तिमाह - अथवेति । अत्र ग्राह्यबिम्बगता क्रान्तिवृत्तप्राची ज्ञेया । तस्या दक्षिणोत्तरतः शरान्तरेण ग्राहक इति सुज्ञानत्वादायनवलनानयने मध्यमक्रान्त्यैवायनवलनं साध्यते । यैः शरसंस्कृतमध्यमक्रान्तेरायनवलनं साध्यते ते कुबुद्धय इत्याह -- तत्रेति । अयनवशेन वलनमायनवलनमिति प्रसिद्धेरयनसङ्केतस्योदगपागयने मृगकर्कणोरिति च कृतत्वाच्छरसंस्कारो न युक्त एव । १. मता क ख पु०