पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यगति वासना ३७७ सौरेणेत्यत्र चान्द्रमासे यत्सावनमानं यत्सौरमासे समजातितया तयोरन्तरं चान्द्रोन- सौरैणेत्यनेनोक्तम् । यद्यनेनान्तरेणैकः सौरमासस्तदा चान्द्रमासतुल्येनाधिशेषेण किमिति सुगमम् । शशाङ्कमासोनितसावनेनेत्यत्र शशाङ्कमासेन प्रागुक्तप्रमाणकेन त्रिंशत्सावना- न्यूनितानि यदवशिष्यते तावतैवान्तरेणैकस्मिन् चान्द्रमासे त्रिशच्चान्द्रसंख्यातः सावनसंख्या क्षीयते । समजात्योरेव योगोऽन्तरं युक्तमित्येवमुक्तम् । यद्यनेनावमशेषेण त्रिशच्चान्द्रास्तदा रूपतुल्येन किमिति शोभनमुक्तम् । अत्र सौरमासान्ते साधितत्वा- दधिमासश्चान्द्रश्चान्द्रान्ते साधितत्वादवमः सावन इति शोभनमुक्तम् क्रान्तिमण्डल- स्थनक्षत्रस्थानोदयद्वयान्तरालकालो यथा सर्वदा तुल्य एवोपलभ्यते न तथा- दयद्वयान्तरालकाल इति । 'रविस्तत: स्वोदयभुक्तिघातात् खाभ्राष्टभूलब्धसमासुभिः' । युता नाक्षत्रषष्टिघटिका रखेः स्फुटं द्यु॒रात्रं भवतीत्युक्तम् । एवं सौरवर्षमध्ये भोदयसंख्यातः सूर्योदयसंख्या निरेका भवति ॥ ४-७ । इदानीं वर्षमध्ये सावनसंख्यामाह -- पञ्चाङ्गरामास्तिथयः खरामाः सार्धद्विदस्राः कुदिनाद्यभब्दे । अस्यार्कमासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास एव ॥ ८ । वा० भा०- 10 - एकस्मिन् सौरवर्षे पञ्चषष्ट्यधिकत्रिशती ३६५ मिता: सावनववसाः पञ्चदश १५ नाडिकाश्च त्रिंशत् ३० पलानि च सार्थानि द्वाविंशति २२।३० विपलानि । एषा- मुपपत्तिमध्यगतिभाष्ये कथितेन । अस्याकंवर्षस्य द्वादशांशोऽर्कमासो भवतीति युक्तम् । सावनं- मासस्तु सावनानां त्रिशतैष भवति ॥ ८ । इदानीं चान्द्रमासमाह -- कालेन येनैति पुनः शशीनं क्रामन् भचक्रं विवरेण गत्योः । मासः स चान्द्रोऽङ्कमा: कुरामा: पूर्णेषव २९।३१।५० स्तत्कुदिनप्रमाणम् ॥ ९॥ वा० भा० -- दर्शान्ते किल शशी रविणा युक्तो भवति । ततो द्वावपि पूर्वतो गच्छतः । तयोः शशी शोघ्रगत्वात् प्रत्यहं गत्यन्तरेणाप्रतो याति । एवं गच्छंश्चक्रकला २१६०० तुल्यम न्तरं यदाग्रतो याति तदा रविणा योगमेति । तयोः कालयोरन्तरालं चन्द्रमासः । तत्प्रमाणम- नुपातेन । चन्द्रार्कयोमंध्यगतों आदौ सम्यक् सावयये कृत्वा यदि गत्यन्तरेणकं कुदिनं लभ्यते तवा चक्रकलातुल्येनान्तरेण कियन्तीत्यनुपातेन चान्द्रमासे कुविनानि लभ्यन्ते । एकोन त्रिंशद्दि नान्येर्कात्रिंशद्घटिकाः पञ्चाशत् पलानि २३ । ३१ । ५० । इत्युपपन्नम् ॥ ९ ॥ इदानीमधिमासोपपत्तिमाह -- चान्द्रोनसौरेण हृतात् तु चान्द्रादवाप्त सौरै र्दशनैर्दलाढयैः ३२ । १६ । मासैर्भवेच्चान्द्रमसोऽधिमासः कल्पेऽपि कल्प्या अनुपाततोऽतः ||१०| सि० - ४८