त्रिप्रश्नाधिकारः इदानीं विलोमलग्नमाह भुक्तासुशुद्धेर्विपरीतलग्नं भुक्तांशगेहाप्तलवोनितोऽङ्कः ।। ७ । वा० भा० – यदोदयात् पूर्वघटीषु लग्नमिष्टं तदा तात्कालिकमकं कृत्वा तस्य भुक्ता- सवः साव्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावन्तो विलोमेन विशोधयेत् । शेषात् खरामगुणिताद विशुद्धोदयभक्ताद्ये लब्धा अंशास्तैस्तथार्कभुक्तांशैश्च तथा विशुद्धोदयतुल्यै राशि- भिश्चोनीकृतो रविर्लग्नं भवति । वासनाप्यत्र सुगमा ॥ ७ ॥ वा० वा० – इदानीं विलोमलग्नमाह - भुक्तासु शुद्धेरिति ॥ ६३ - ७ | इदानों दिग्ज्ञानमाह -- वृत्तेऽम्भः सुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमा- द्भागं यत्र विशत्यपैति च यतस्तत्रापरैन्द्यौ दिशौ । तत्कालापमजीवयोस्तु विवराद्भाकर्णमित्याहता- ल्लम्बज्याप्तमिताङ्गुलैरयन दिश्यैन्द्री स्फुटा चालिता' ॥८॥ तन्मत्स्यादथ याम्यसौम्यककुभौ सौम्या ध्रुवे वा भवे- देकस्मादपि भाग्रतो भुजमितां कोटीमितां शङ्कुतः । न्यस्येद्यष्टिमृनुं तथा भुवि यथा यष्टयग्रयोः संयुतिः कोटिः प्राच्यपरा भवेदिति कृते बाहुश्च याम्योत्तरा ॥ ९ ॥ वा० भा० - उदकेन समीकृतायां भूमाविष्टप्रमाणं वृत्तं विलिष्य तस्य केन्द्रे द्वादशा- गुलशकुं निवेश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाह्नऽपराह्न यतो निगच्छति तत्र पश्चिमपूर्वदिशौ किल भवतः । परन्तु यस्मिन् काले छायाप्रवेशो जातो यस्मिन् कालें च निर्गमस्तात्कालिकयोरकंयोः क्रान्तिज्ये साध्ये । तयोरन्तरात् तस्याश्छायायाः कर्णेन गुणिताल्लम्बज्यया भक्ताद्यल्लब्धमङ्गुलादि फलं हेन्द्री दिगुत्तरतश्चालिता स्फुटा भवति यद्युत्तरेऽयने रविवर्तते । यदि दक्षिणे तदा दक्षिणतः । एवं स्फुटा' प्राची । अन्यथा स्थूले- त्यर्थः । तन्मत्स्याद्याम्यसौम्ये दिशौ । १. अत्र श्रीपतिः- १५१ अथ प्रकारान्तरेणाह - ध्रुवमवलम्बसूत्रेण विद्ध्वा ध्रुवाभिमुखकीलकः सौम्या | स्वस्थानकीलको याम्या | तन्मत्स्यात् पूर्वापरे । प्रथमं भाद्वयाग्रदर्शने विग्ज्ञानमुक्तम् । छायानिर्गमन प्रवेश समयार्कक्रान्तिजीवान्तरं क्षुण्णं स्वश्रवणेन लम्बकहृतं स्यादङ्गुलाद्यं फलम् । पश्चादिबन्दुमनेन रव्ययनतः सञ्चालयेद्व्यत्ययात् स्पष्टा प्राच्यपराथवायनवशात् प्राग्बिन्दुमुत्सारयेत् ॥ ( सि० शे० त्रिप्रश्न० ३ श्लो० ) ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९६
दिखावट