पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० सिद्धान्तशिरोमणौ ग्रहगणिते लग्नेऽल्पके तु द्युनिशात् स शोध्यस्तात्कालिकार्कादसकुच्च कालः । चेत् सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मेः || ६ | आयो यदेष्टा घटिका विलग्नं कालश्च तत्रौदयिकात् सकृच्च । वा० भा० – अर्कस्य प्राग्वद्भोग्यकालः साध्य: | लग्नस्य सायनांशस्य भुक्तकाल : साध्यः । तयोरैक्यमर्कादग्रतो लग्नपर्यन्तं ये मध्ये राशयस्तेषामुदयाश्च क्षेप्यास्तत्रैव । एवं लग्नात् कालो भवति । अत्र यदैकराशौ लग्नार्कों भवतस्तदा तयोरन्तरांशैः स्वोदयं संगुण्य त्रिंशता भजेत् । फलमिष्टकाल: स्यात् परं यद्यर्काललग्नमधिकम् । यद्यल्पं तदा स कालोऽहोरात्रा- च्छोध्यः । शेष मिष्टकाल: स्यात् । अत्रेष्टकालसा धनेऽर्कस्य भोग्यमौदयिका देव क्रियते । ( यतः) कालज्ञान त् तात्कालिकत्वमर्कस्थ कार्यम् । अतः स्थूल: काल आयाति । अनेन कालेन तात्का- लिकमकं कृत्वा मुहुः कालः साधयितुं युज्यते । परं यदि प्रष्टुः सावनघटिका इष्टाः । एतदुक्तं भवति । उदयानन्तरमेतावतोस्वर्क सावन घटिकासु कोदृग लग्नं भवतीत्येतदभोष्टं तदैव तात्का- लिकार्कालग्नं साध्यते । तदेव लग्नादसकृत् काल: । यदा पुनरिष्टघटिका आर्द्धस्तदौदयिका- देवार्काल्लिग्नं लग्नात् काल: सकृच्च | अत्रोपपत्तिः - - सुगमा । तात्कालिकीकरणकारणता गोले कथिता व्याख्याता च ।।५-६३। वा० वा० - लग्नात् कालानयनमाह - 'अर्कस्य भोग्य इति । यदा अर्कलग्ने राश्यन्तरस्थे भवतस्तदार्कस्य भोग्यस्तनुभुक्तयुक्त इति काल: समायाति । यदा त्वेकराशिस्थौ लग्नार्कों तदा लग्नात्कालानयनमाह—यदैकभे लग्नरवी तदेति । अर्कादधिके लग्ने रव्युदयात्कालः समायाति । यदाकदल्पं लग्नं तदा रात्री- ष्टकाल इत्याह – लग्नेऽल्पके तु द्युनिशात्स शोध्य इति । ननु तात्कालिकार्कभोग्ये तनुभुक्तकाले मध्योदयकाले च संयोजिते सावनेष्ट- घटीज्ञानं, तद्ज्ञाने च तात्कालिकार्कज्ञानमिति परम्पराश्रयापत्तेर्दुर्गमं लग्नात्सावन- घटीज्ञानमित्यत आह - तात्कालिकार्कादसकृच्च काल इति । अत्रायमभिसन्धिः । तावदौदायकार्कादेव भोग्यकालमानीयेष्टकालः साध्यः । ततस्तेन कालेनार्क तात्का- लिकं कृत्वा तात्कालिकार्कभोग्यकालमानीयेष्टकाल : साध्यः । पुनरनेनेष्टकालेनौदयि- कार्कं तात्कालिकं कृत्वा तस्माद् भोग्यकालेनेष्टकाल: साध्यः । मुहुर्यावविशेषेण स्थिरीभूतो भवति तावत्साध्यः । अत्र गणिते सर्वत्रासकृत्प्रकार एव परस्पराश्रितत्वे शरणमिति सोऽप्यत्रात इति युक्तम् । आचार्येणापि परस्पराश्रितत्वमसकृत्प्रकारे तन्त्रमिति गोले 'मिथ: संश्रिते मान्दशैध्ये हि तेनासकृत्साधित' इति ग्रन्थेन स्पष्टीकृतमेव । तात्कालिकार्केण युतस्य राशेरेतस्यार्कस्य भोग्य इत्यस्य च विषयविवेकमाह - चेत्सावना इति । आर्क्ष्य इति ॥ ५-६३ ।