पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० वा० —— अथ कक्षाध्यास्तत्र ग्रहकक्षाखकक्षयोर्ज्ञानोपायो' भगणोपपत्तौ चिन्तितः । नक्षत्रकक्षाज्ञानं भूगर्भभूपृष्ठस्थक्षितिजान्तराले दृमण्डले स्वस्वक्षितिजो- वंशङ्कुद्वयान्तरकलाभ्यः सुगमम् । ६४

  • पश्येज्जलादौ प्रतिबिम्बितं भं खेट हगौच्च्यं गणयेच्च लम्बम् ।

तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत्सूर्यहतं प्रभा स्यात् । छायातः शङ्कुर्यः स तु भूपृष्ठस्थक्षितिजात् । त्रिप्रश्नविधिना भौमादिवन्न- क्षत्रशङ्कः साध्यः । स तु भूगर्भस्थक्षितिजादूर्ध्वं भवति । आभिः शङ्क्वन्तरकलाभि- र्भूव्यासाँर्द्धयोजनानि तदा चक्रलाभिः किमिति भकक्षा भवति । सा च रविकक्षातः षष्टिगुणोत्पद्यते । कक्षासाधनस्य मनुष्यैरेवं कर्तुमशक्यत्त्वादागम एव कक्षामाने प्रमाणमित्युक्तम् । स्वकक्षातो वा शङ्क्वन्तरसाधनं वैपरीत्येन । रवीन्द्वोरेव मध्यक- क्षातः शङ्क्वन्तरसाधनम् । भौमादीनान्तु । ‘ग्रहस्य कक्षा चलकर्णनिघ्नी स्फुटा भवेद्व्यासदलेन भक्ता ।' इति स्फुटकक्षातः शङ्क्वन्तरं साध्यम् । अथ ग्रहकक्षोपरि चलोच्चकक्षाऽस्ति तदधो वा । नाद्यः । ग्रहापेक्षया चलोच्चगतेरल्पत्वं प्रसज्येत तच्चायुक्तं प्रत्यक्षविरो- धात् । न द्वितीयः । भूगर्भाद्द्वरतरप्रदेशावस्थितिनिबन्धनोऽयमुच्चव्यपदेशो बाध्येत । दूरप्रदेशावस्थितत्वं नाम स्वीयग्रहादनधः स्थितत्वम् । तस्माद् ग्रहकक्षैव तुङ्गपातयोः४ कक्षेत्याह । ‘ग्रहस्य कक्षैव हि तुङ्गपातयोः पृथक् च कल्पाऽत्र तदीयसिद्धये' । ग्रहकक्षाया उच्चप्रदेशस्यैवोच्चत्वव्यपदेशः । ग्रहकक्षाया यत्र विमण्डलेन संयोग- स्तत्प्रदेशस्य पात इति संज्ञा | कुजगुरुशनिचलोच्चानां प्रत्यक्षोपलब्धगतेर्मध्यरविगति- तुल्यत्वदर्शनान्मध्यरविश्चलोच्चमिति कल्पना । वस्तुतस्तु स्वीयग्रहकक्षास्थानामेव चलोच्चानां नन्दाक्षाः कला भुजगाश्च विकला गतिरिति । अत्र 'ग्रहस्य चक्रेविहृता खकक्षा भवेत् स्वकक्षा' इति या तुङ्ग पातानां पृथक् कक्षा समायाति सा तु । 'स्वया स्वया तानि पृथक् च कक्षया हृतानि वा स्युभंगणादिका ग्रहाः । इति प्रकारेण तेषां साधनार्थमेवोपयुज्यते । न तेषामवस्थित्यर्थमित्यर्थः । सम- मण्डलमप्राप्तस्य रवेः समशङ्क"त्पत्तिवत् । नन्वेवं विसदृशगतीनां तुङ्गपात ग्रहाणा- मेककक्षास्थित्यङ्गीकारे रव्यादीनां ग्रहाणां सर्वेषामप्येककक्षास्थितत्वं कुतो न स्यात् । स्यादेतद्यदि ग्रहभेदयोगकाले ग्रहबिम्बयोरूर्ध्वाधरत्वानुभवो न भवेत् । शीघ्रफला- भावे भूमेर्दूरतरप्रतिमण्डलप्रवेशावस्थितो ग्रह एवोच्चपदेनोच्यते । प्रतिमण्डले विलोमं १. ग्रहा ग० पु० । २. ग्रहला० ग्रहच्छा० ३ श्लो० । ४. कक्षोत्याह ग पु० पा० । ३. लाद्य दू० ग पु० । ५. कन्यतिवन् ग० पु० कुत्पत्यवन् क० ख पु० च० । ६. विशूहरा ग० पु० ।