पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६७, मं ७ ] दशमं मण्डलम् ३५६१ उद्गीथ० इन्द्रः परमेश्वरो बृहस्पतिः वलम् मेघम् रक्षितारम् परिपालयितारं परिवेष्टयितारम् दुधानाम् सर्वस्य प्रपूरयित्रीणाम् अपाम् करेण इव दस्तेनेव सामर्थ्याद् वज्रेण वा केवलेन चकर्त कृन्तति छिनत्ति वि रवेण हाङ्कारहनहनादिविविधशब्देन । छित्वा च स्वेदाञ्जिभिः स्वेदस्य स्वेदितु. क्षरितुरुदस्य अञ्जिभिः अभिव्यक्तिभिः उत्पादनैः "अथवा क्षरितुरुदकस्य अभिव्यञ्जकैः अगिरोभिः सह आशिरम् सोमम् इच्छमानः कामयमानः अरोदयत् रोदयति अथ्रुस्थानीयां वृष्टिं विमोचयति । पणिम् पणिसदृश मित्तदायिनं मेघं रोदयित्वा च तस्य आ गा: अपः अमुष्णात् मर्यादया मुष्णाति अपहरति स्वीकृत्य भूमौ क्षिपतीत्यर्थः ॥ ६ ॥ वेङ्कट० ईश्वरो बृहस्पतिः अभिनत् बलम् रक्षितारम् गवाम् । करेण इव सायुधेन शब्देनैव बलम् विचकते | हवेदाञ्जयो मरुतः क्षरदाभरणा' इति । तैः सह आशिरम् इच्छमानः पणिम् अरोदयत् आ अमुष्णात् च तं पणिं तेनापहृताः गाः इति ॥ ६ ॥ 'इति अष्टमाष्टके द्वितीयाध्याये पञ्चदशो वर्ग. ॥ स ई॑ स॒त्येभिः॒ः सखा॑भिः शु॒चभि॒र्गोयसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भर्व॒राह॑र्य॒र्मस्वे॑देभि॒र्द्रवि॑ण॒ व्या॑नट् ॥ ७ ॥ सः । ई॒म् । स॒त्येभि॑ । सवि॑ऽभिः । शु॒चत्ऽभि॑िः । गोऽधयसम् । वि | ध॒न॒ऽसैः । अ॒द॒र्दुरित्य॑दर्दः । ब्रह्म॑णः । पति॑ः । वृष॑ऽभिः । व॒राहैः' । घ॒र्मऽस्वैदेभिः । द्रवि॑णम् | वि । आ॒न॒ट् ॥ ७ ॥ उद्गीथ० ईम् इति पदपूरण | सः 'प्रकृत. ब्रह्मणः पतिः' बृहस्पतिः सत्येभिः सत्यैरविसंवादिभिः सखिभिः अङ्गिरोभिः सह शुचद्भिः दीप्यमानैः गोधायसम् गवाम् अर्पा धावारं मातरं वा मेघम् धनसैः धनस्य नानाजातीयस्य विशिष्टस्य सम्भक्तृभिरित्यर्थं 'वृषभिः वर्षिनृभिः वराहैः बराहारै. वरस्य उदकस्य आहर्तृभि: धर्मवेदेभि यज्ञं च प्रति चरितृभिः गन्तृभिरित्यर्थः 'वि अदर्दः व्यदारयत्' । विदार्य च द्रविणम् धनम् उदकाख्यं तत्रत्यम् वि आनट् विविधं प्राप्तवान् ॥ ७ ॥ चेट० सः एनं वलं सत्यैः सखिभिः ज्वलगि तपशुम् वि भदारयत् धनस्य सम्भक्तृभिः । ब्रह्मण पतिः पितृभिः वराहारैः मरुद्भिः क्षरदुदकैः " गोधनम् " "वि आनट् व्यामोत्ति ॥ ७ ॥ ते स॒त्येन॒ मन॑सा॒ा गोप॑तिं॒ गा इ॑या॒ानास॑ इ॒पणयन्त ध॒ीभिः । बृह॒स्पति॑मि॒थो अ॑त्रद्यपेभि॒रुद॒स्रिया॑ असृजत स्व॒युभिः ॥ ८॥ १. वज्र मृको. २. हाउकार वि; छाकार अ. ३. नाहित वि. ५-५. एवं रक्षिरु" वि": "वा रचिनरु" विश्र, ६. वाणिजं स वि ; पणिज स० वि. ८-८. नास्ति मूको, ९. वराहाः = अङ्गिरस इति या. (५,४). १०. दुद यि'. १२.१२. व्याधनदिति वि नड्वेवि वि म ४. खेदितुं दि भ ७. क्षरणा० वि. " "न' वि.