पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १७, मं २१] दशमं मण्डलम् ३३३९ मम साहाय्यार्थ वि आप्नुवन्ति, सूर्यश्च शोधयिता मेघो भवन् । सूर्यस्य हि तेजांसि भवन्ति मेघाः ॥ २० ॥ ' इति सप्तमाटके ससमाध्याये अष्टादशो वर्गः ॥ अ॒यं यो वज्रः पुरु॒धा विधृ॑त्तोऽवः सूर्य॑स्य बृह॒तः पुरी॑पात् । श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒मार्णस्तरन्ति ॥ २१ ॥ अ॒यम् । यः । बज्रैः । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृह॒तः । पुरी॑षात् । श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माण॑ । त॒र॒न्ति॒ ॥ २१ ॥ उद्गीथ० यः अयम् इन्द्रय स्वभूतः वज्रः पुरुषा बहुधा अनेकप्रकारम् अग्रतः पृष्ठतः पार्श्वतो मध्यतः क्षघस्ता दुपरिटाय वृष्टयुदुकप्रतिबन्धकासुरमेघादिशत्रुशरीषु वित्त पतितः बृहृतः पुरीधात् अवः अन्तरिक्षलोकस्य परस्तादादित्यमण्डले श्रवः इत् 'ध्रुवः' ( निघ २, ७ ) इत्यन्ननाम | अनहेतुत्वाचात्र आदित्यमण्डलस्यम् उदकमुच्यते । इच्छन्दोऽप्यर्थे । तच्छदश्रुतेर्य- च्छन्दोऽध्याहार्यः । यदध्युदकं मेघोदरगतादुदकात् एना परः अन्यत् अस्ति तत् अपि अव्यथी व्यथारहिताः जरिमाणः 'प्रहर भगवो अद्दि चोरयस्व' (ऐवा ३, २० ) इति इन्द्रय स्त्रोतारो मध्यमस्थाना देवगणा मरुदादयः तरन्न तरतिस्त्रान्तर्णतण्यर्थो द्रष्टव्यः । वज्रघातमन्तरेणेन्द्रस्य प्रतापेनैवान्तरिक्षलोकं प्रति रश्मिभिरवतारयन्तीत्यर्थः । अथवा जरिमाण तमसां भौमानां च रसानां जरितारो रइमयो वर्षास्ववतारयन्ति । एतदुक्तं भवति - मेघोदरगतमुदकं तरप्रतिबन्धकान् शत्रून् वज्रेण हत्वा भूमौ पातयतीन्द्रः आदित्यमण्डलस्थमुदकं बज्रमन्तरेणाऽऽज्ञयैव केवल्या अन्तरिक्षलोकं प्रति रश्मिभिरवतारयतीति ॥ २१ ॥ वेङ्कट० अयम् यः इन्द्रस्य चनः बहुधा इतस्ततः विच्छिन्नः मेघेषु इन्द्रधनुः अवस्तात् सूर्यस्य स्वभूतात् महतः पूरकात् मण्डलाद् अस्य परस्तात् श्रवणीयम् अन्यत् अन्नम् अस्ति, तन् भसं व्यथारहिता, स्तोतारः नरन्ति, जयन्ति आत्मीयं कुर्वन्ति इति । यद्वा श्रवणीयम् इन्द्रायम् अन्यत् तेजो विद्यते, तत्तेजो व्यथारहिता गरिवारो दक्षिणाया माध्यमिका देवगणाः तरन्ति ॥ २१ ॥ वृक्षैव॑ते॒ निय॑ता मीमय॒द्गौस्तो चय॒ प्र प॑तान्॒ पूरु॒पाः । अये॒दं विश्व॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृप॑ये च॒ शिक्ष॑त् ॥ २२ ॥ वृक्षेऽवृक्षे । निय॑ता । म॒मय॒त् । गौः । ततैः । वयैः । प्र । पान् । पुरू॒प॒ऽअद॑ः । अर्थ | इ॒दम् । विश्व॑म् । भुव॑नम् । भाते | इन्द्रा॑य | सुन्चत् । ऋर्पये च । शिक्षैत् ॥ २२ ॥ १.१. नास्ति मूको. २. ६. "रेवा वि ५. श्यन्तीति वि. ९. मास्ति वि. हो. ३.मयों मूको. ७-७. अननम् निज ४. पातयन्तीन्द्रः वि. ८. या विभ.