पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६६ ऋग्वेदे सभाष्ये [ अ ७, अ६ व २०. वेङ्कट० शृतम् यदा करोपि जातप्रज्ञ ! अथ एनम् प्रयच्छ पितृभ्यः | यदा अयम् गच्छति असुनीतिम् देवताम् इमाम्, अधासौ देवानाम् आत्मीयानाम् इन्द्रियाणाम् वशनीः भवतु | यो वर्श नयति स वशनीः ॥ २ ॥ सूर्युं चक्षु॑र्गच्छतु॒ वात॑मा॒ात्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा | आत्मा तव अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा शरीरैः ॥ ३ ॥ सूर्य॑म् । चक्षु॑ः । ग॒च्छ॒तु॒ । वात॑म् । आ॒मा । द्याम् । च॒ । ग॒च्छ॒ | पृ॒थि॒त्रम् । च॒ । धर्म॑णा । अ॒पः । वा॒ा । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ | शरीरैः ॥ ३ ॥ उद्गीथ० सूर्यम् स्वकारणम् चक्षु तव सम्बन्धि गच्छतु प्रामोतु । वातम् गच्छतु शरीरान्तर्गतो चायुः । अन्यानि च वागादीनीन्द्रियाण्य न्यादिदेवेषु स्वकारणेपु लीयन्ताम् प्रदर्शनार्थत्वात् सूर्यचक्षुर्वातात्मग्रहणस्य | द्याम् च चशब्दोऽत्र विकल्पार्थे । दिवं वा गच्छ प्रामुहि देवशरीरे स्वकर्मानुरूपं फलमुपभोक्तुम् । पृथिवीम् च पृथिवीं या गच्छ धर्मणा कर्मणा | अपः वा गच्छ 'आप' ( निघ २,३) इत्यन्तरिक्षनाम । अन्तरिक्षं वा प्रामुहि | तन अन्तरिक्षे ते तत्र कर्मफलम् हितम् सुस्थापितम्। ओपवीपु प्रति तिष्ट शरीरैः बहुवचन- सामर्थ्यात् शरीराज्यवैरित्यर्थः । अथवा 'ओपघोर्लोमानि वनस्पतीन् केशा. ( बृउ इति वचनात् ओषधिवनस्पतिपु शरीरजलोमकेशात्मना' प्रतितिष्ठेत्यर्थः | मन्यदपि श्रुत्यन्तरे यद् दृष्टम् 'अप्सु लोहितच रेतश्च ( वृउ ३,२,१३ ) इत्यादि, तत्सर्वमग्र द्रष्टव्यम् ॥ ३ ॥ वेङ्कट० अस्य चक्षुः सूर्यम् गच्छतु, बातम् प्राण द्याम् पृष्ठेन गच्छ, पृथियोम् ध धारण शरीरेण । अन्तरिक्षम् वा गच्छ, यदि तत्र ते निर्मित कर्म अथ ओषधीषु गच्छ अङ्गैः१° ॥ ३ ॥ ३, २, १३ ) . अ॒जो भा॒गस्तप॑स॒ा तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑दैनं॑ सु॒कृता॑मु लो॒कम् ॥ ४ ॥ अ॒जः । भा॒गः । तप॑सा । तम् 1 तस्व॒ । तम् । ते । शोचि । तपत | तम् । ते । अ॒र्चिः । याः। ते॒ । शि॒वाः । त॒न्व॑ः । जा॒त॒त्रे॒दः । ताभि॑ः । बृ॒हु । ए॒न॒म् । सु॒ऽकृतम् । ऊ॒ इति॑ । लो॒कम् ॥ उद्गीथ० यस्य यजमानस्य यः अजः अनुत्पत्तिधर्मकः नित्यः अन्तरपुरुपलक्षण. शरीरेन्द्रियादिभागस्य व्यतिरिक्तः तम् भागम् तरसा सन्तापेनाद्वारगतेन तपस्व सन्तापय भागः 9. गथा भूको. २२. अनुनीति वि' श्र'. ४. पचनी कि जि ५. लस्यापितम् मूको. फो. ८. पंचामन वि 'केशन रि ९. प्रणः वि१९ १२ अनन्त वि. ३ मिमाथमथा वि : °मिनमथा वि. ६. धी लोमानि मूको. ● वनस्पति १०. 'मै. वि . 11. नाहित