पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मे १२ ] प्रथमं मण्डलम् ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्रं॒ ब्रह्म॑णि॒ गोत॑मासो अनन् । ऐषु॑ वि॒श्वप॑शसं॒ धियं॑ धाः आ॒तर्मुक्षू पि॒याम॑सु॒र्जगम्यात् ॥ १६ ॥ ए॒व॥ । हारि॒ऽयोजन॒ । सुऽवृति | इन्दै | ब्रह्माणि | गोत॑मासः । अ॒न् । आ।ए॒षु। वि॒िश्वऽपैशस॒म्। घिय॑म् । धा॒ाः । प्र॒तः । म॒क्षु । धि॒याऽव॑सु॒ः। जग॒भ्य॒त् ॥ १६ ॥ ...।। १६ ।। ARD इति भर्तृध्रुवसुतस्य स्कन्दस्वामिनः कृतौ ऋग्वेभाष्ये चतुर्थोऽध्यायः ॥ बेङ्कट० एवम् ते हरी आपथितारौ यस्य तस्य सुप्रवृत्तानि इन्द्र | स्तोत्राणि गोतमाः अनन् । कृतेषु च एतेषु विश्वरूपां बुद्धिम् आधाः । मायेण* स्तुहिमानं सूतमिति । प्राणे इत्थं चतुर्थमध्याय व्याकरोत् प्रथमेऽष्टके | अष्टकस्य तुलै तातो माधवो वेंकटात्मजः ॥ १६ ॥ इति बेदमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने अथमाष्टके चतुर्थोऽध्यायः ॥ मुद्गल० हारियोजन! हर्योः अश्वयोः योजनं यस्मिन् रथे स तथोक्तः । तस्य स्वामित्वेन सम्बन्धी हारियोजनः । दे इन्द्र! गोतमासः गोतमगोन्नोत्पन्ना ऋपयः सुवृति सुण्डु आवर्तकानि अभि- मुखीकरणकुशलानि ब्रह्माणि स्तुतिरूपाणि मन्त्रजातानि ते तदैव अक्रन् अकृपत। एषु स्तोतृषु विश्वपेशसम् बहुविधरूपयुक्तम् धियम् धिया लभ्यत्वात् धीर्धनमुच्यते । आ धाः घेहि स्थापय | प्रातः इदानीमिय परेछुरपि प्रातःकाले भियावसुः युद्धवा प्राप्तधन इन्द्रः मक्षु शीघ्रम् जगम्यात् अभद्रक्षणार्थमागच्चतु ॥ १६ ॥ इति प्रथमाटके चतुर्थाध्याये एकोनविंशो चर्गः ॥ इति ऋग्वेदे सभान्ये चतुर्थोऽध्यायः समासः ॥ १. इन्दम वि.२. धनुर्वन् विस ३-३ नेषु बि श्र ४- नास्ति चि; आधाः