पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२, मै १५ ] प्रथमं मण्डलम् मुहल० बज्रबाहुः इन्द्रः शन्नौ हवे सति निःसलो भूत्वा यातः गच्छतो जङ्गमस्य अदसितस्य एकन्नैव रियतस्प स्थावरस्य समस्य शान्तस्य श्रमराहित्येन प्रहरणादायप्रवृत्तस्याश्वरामादेः शृङ्गिणः झट्टोपेतृस्य महिपत्रलोचदेश्च राजा अभूत् । सः इत् उ स एव इन्द्रः चर्षणीनाम् मनुष्याणाम् राजा मूत्वा क्षयति निघसवि । ता तानि पूर्वोकानि जमादीनि सर्वाणि परि वभूव व्याप्त वान् । दृष्टान्तः । अरान् न मिः यथा रथचक्रस्य परितो वर्तमाना नमिः शरान् नाभौ श्रीलिवान् काठविशेषान् व्याप्नोति तद्वत् ॥ १५ ॥ इति प्रथमाष्टके द्वितीयाध्यामे अष्टाविंशो वर्गः । इति ऋग्भाध्ये द्वितीयोऽध्यायः समाप्तः ॥