पृष्ठम्:Rekha Ganita.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ५ जातम् । झवभुजश्व बतुल्योऽस्त्येव । पुनर्वकभुजः वततुल्योऽस्ति । वतं जतुल्यमस्ति तस्मात् वकं जतुल्यं जातम् । अथास्माभिर्यदुक्तं तिस्रो रेखास्तादृशा अपेक्षिताः यासु रेखाद्वय योगस्तृतीयरेखाया अधिको भवतीति किमर्थमुक्तमिति चेत्तत्र पूर्वोक्तोप पत्या रेखाद्वययोगस्तृतीयरेखाया अघिकोऽस्तीति प्रतिपादितमेव । अत एव वृत्तद्वयसंपातो भवति । कुतः । अरेखाबरेखायोगः जरेखाया य द्यधिको न भवति तदा वतरेखा वदरेखातुल्या भविष्यति अथवा धिका भविष्यति । तस्मात् कतलवृत्तं कदलवृत्तं स्वान्तःपाति करि ष्यति। अथ दचिन्हे तदा संलग्न भविष्यति यदा वतं वदसमानं स्यात्। तदा दचिन्हात् परतो भविष्यति यदा वतं वदादधिकं स्यात् । पुनः संपातो न भवति । यदि बरेखाजरेखायोगः अरेखातोऽधिको न स्या तदा कदलवृत्तं कतलवृत्तं स्वान्तर्गतं करिष्यति । कुतः । दप्तरेखा झतसमाना चेत्तदा दकलवृत्तं तचिन्हे लगिष्यति । यदि दर्श झतात् अधिकं स्यात् तदा दकलवृत्तं तचिन्हात् परतो भविष्यति । वृतद्वयसं पातस्तदापि न भविष्यति । पुनः अरेखाजरेखायोगः बरेखाया अधिक न भविष्यति तर्हि झवरेखा वतरेखाहूदरेखायोगतुल्याधिका वा स्यात् । तदापि संपातो न भविष्यति । एवं तदैकं वृत्तं अन्यद्रुतं स्वान्तर्गतं न करिष्यति किं तु वृतद्वयं भिन्नं भिन्नं स्थास्यति यथा धिकस्तदेति ॥ • K. adds द्वाविंशतितमं क्षेत्रम् after इति.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९३&oldid=150650" इत्यस्माद् प्रतिप्राप्तम्