पृष्ठम्:Rekha Ganita.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ अत्रोपपत्तिः । बबबदरेखे अबरेखायां बचिन्हे मिलिते जाते । जबअझयः दबअकोणः एतौ समझोणद्वयसमानौ जातौ। तदा जबदरेखा सरला एका रेखा जाता । यदि सरला न भवति तदाँ जबहरेखा सरला रेखा भवति । तत्रै जबअः इबअः ह । एतौ द्वौ कोणौ द्वयोः समकोणयोः समानौ व ज जातौ । तदा जबअकोणः दबअकोणः एतावपि कोणौ द्वयोः सम कोणयोस्तुल्यौ भवतः । पुनस्तयोर्जबअकोणश्वेच्छोध्यते तदा इबअ ल्धुकोणः दबअबृहत्कोणतौ समानौ स्याताम् । एतदनुपपन्नम् । यतस्तौ प्रत्यक्षी लघुमहान्तौ । तस्मादुपपन्नं जबदरेखा सरलतीति ॥ अथ पञ्चदशं क्षेत्रम् । तत्र रेखाद्वयसंपातादुत्पन्न कोणचतुष्टयं तेषु परस्परसन्मुखं कोणद्वयं समानं भवति । यथा अबरखाजदरेखाभ्यां हचिन्हे सं पातः कृतः । तत्र जहबकोणअहदकोणौ पर स्परसन्धुसौ समानौ स्तः । कुतः । बहजकोण- द इ ब्र जहअकोणयोयोगः समकोणद्वयतुल्योऽस्ति । पुनर्जहअकोणअहदकोणयोयोगोऽपि समको वे णद्वयसमानोऽस्ति । जहअकोणश्चोभयोः कोणयोर्मिलितोस्ति स ऍरी क्रियते चेत्तदा बहजोणअहदकोणावपि शेषौ समानौ स्तः । तदा रेखाद्वयसंपातात् उत्पन्न कोणचतुष्टयं चतुर्भिः समकोणैः समानं जातम् । • omibted in D. २ omitted in D. ३ omitted in D.

  • omitted in D. ५ D omits इति. ६ रीकृता तदा D. K.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८४&oldid=150638" इत्यस्माद् प्रतिप्राप्तम्