पृष्ठम्:Rekha Ganita.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ च यस्मिम्श्चिन्हे यावत्यो रेखा मिलितास्तत्रोत्पला ये कोबास्ते चतुर्भिः समकोणैः समाना भवन्ति । अथ षोडशं क्षेत्रम् । तत्र त्रिभुजस्यैको भुजः स्वमार्गवृद्धः कार्यः ततत्रिभुबा बहिरुत्पलकोणः त्रिभुजान्तर्गतस्वपार्श्वस्थितान्यकाणाभ्यां प्रत्येकादधिकोऽस्ति । यथा अबजत्रिभुजे बजसुजः दप झ| र्यन्तं नीतः । तत्र त्रिभुजाद्वहिरुत्पन्नः अजदकोणः त्रिभुजान्तर्गतअकोणात् ब कोणाच्च प्रत्येकादधिकोऽस्ति । अत्रोपपत्तिः । तत्र अजभुजस्य हचिन्हे खण्डद्वयं समानं कार्यम् । बहरेखा च कार्या। बहरेखा वर्धिता बहसमाना झपर्यन्तं नेया । जझरेखा च कार्या । तदा अबहत्रिभुजं जातम् । एवं हजशत्रिभुजं जातम् । तत्र बहभुजः हझभुजेन समानः । अहभुजश्च हजभुजेन समानः । बहअकोणः झहजकोणेन समानः । तस्मात् बअहकोणः हजझकोणेन समानो जातः । तदा अजदबहिर्गतकोणः अजह्नकोणादधिकोऽस्ति । अको णादप्यधिकः । पुनः अजभुजः वचिन्हपर्यन्तं नेयः । तदा बजव कोणः बकोणादधिकः । बजवकोणश्च अजदकोणश्चैतौ समानौ जातौ। अजदकोणोऽपि बकोणादधिको जातः । इदमेवास्माकमभीष्टम्। अनेन इदमपि ज्ञातमेकचिन्हादुत्पन्नं रेखाद्वयं तृतीयरेखया यदि योगं करोति तदा तत्रोत्पनैकदिक्कोणद्वयं कदापि समानं न भवति । दिगत्र चिन्होत्पनरेखातो प्राया ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८५&oldid=150642" इत्यस्माद् प्रतिप्राप्तम्