पृष्ठम्:Rekha Ganita.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ पुनः प्रकारान्तरेणाह । तत्र कर्णस्य चतुर्युजं त्रिभुजोपरि पातनीर्यम्। अबभुजस्य चतुर्मुजं त्रिभुजाद्वहिः पातनीयैम् । जअरेखा कार्या सा दचिहे संपातं करिष्यति यदा अबअजैौ समौ स्तः। अथवा सा जअरेखा दहरेखायां कचिहे संपातं करिष्यति यदि अर्ब अजादधिकं स्यात् । अथवा दबरेखायां कबिहे संपातं करिष्यति यदि अर्ब अजाम्यूनं स्यात् । एवं प्रकारत्रयेऽपि अबोपरि बवलम्बो निष्काश्यः । दचिहात् बवोपरि दवलम्ब उत्पाद्यः । पुनः अकरेखा तथोत्पाद्य यथा दवरे सायां इचिहे संपातं करिष्यति । दवबत्रिभुजे अबजत्रिभुजे दब भुजो बजभुजतुल्यः । वकोणः अकोणतुल्यः। दबवकोणो जबअ कोणतुल्यश्चास्ति । तदा अबबवभुजौ तुल्यौ स्याताम्। अबझवक्षेत्रं अबभुजस्य समचतुर्युजं समकोणं भविष्यति त्रिभुजाद्वहिः पतिष्यति । पुनर्वदरेखा अलरेखा च तथा वर्जनीया यथा तचिहे संपातं करिष्यति । तदा दबअतक्षेत्रं अबवझसमचतुर्भजसमकोणक्षेत्रेण समानं जातम् ॥ पुनर्दबअतक्षेत्रं दबनलक्षेत्रसमानमस्ति । तदा अबभुजस्य समचतु भुजसमकोणक्षेत्रं दबनलक्षेत्रसमानं जातम् ॥ पुनः प्रकारान्तरेणाह । अबभुजसमकोणचतुर्युजक्षेत्रं त्रिभुजोपर्युत्पाद्दनीयम् । तत्र सचिवं १ कार्यम् A. B. २ कार्यम् A. B. ३ कार्यम् A. B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२८&oldid=150692" इत्यस्माद् प्रतिप्राप्तम्