३२ प्रकारान्तरेणाह । तत्र त्रिभुज कर्णस्य च चतुर्भजं पूर्वकृतमेव स्थापितं अलरेखा च यथावस्थिता स्थापिता । पुनर्बभरूपं अबस्य चतुर्युजं त्रिभुजोपरि स्थाप्यम् । ततो बअभुजः जअभुजतुल्योऽथवाऽधिकोऽथवा न्यूनः स्यात् । तदा क्रमेण अचिहं जचिहे पतिष्यति वा अजरेखाया बहिः पतिष्यति अथवा अजरेखायां पतिष्यति । पुनर्दवरेखा संयोज्या । तत्र अबवकोणो जबदकोण एतौ समकोणौ स्तः । पुनर्जबवकोणो द्वयोः समकोणयोः शोध्यते । तदा शेषं अबजकोणो वबदकोणश्चैतौ समानौ भवतः । पुनः अर्ब बवतुल्यमस्ति बी बदतुल्यम् । अबजकोणो वबदकोणचैतौ समानौ जातौ । पुनर्बवदकोणो बअज- कोणसमकोणसमानो जातः तदा दवसरेखा एका सरला रेखा जाता । अबरेखायाः समानान्तरा च जाता । तया अलरेखायां तचिहे संपातः कृतः । नअजकोणो जवअकोणेन समानोऽस्ति।पुनः अक्षवः समको णोऽस्ति । तदा तचिहं वचि भविष्यति । पुनर्दतलं सरलैका रेखा अ भविष्यति यदा अब अजतुल्यं भविष्यति । अथवा तचिहं वचिहे न भविष्यति अथवा अन्यचिहं भविष्यति । पुनर्यदा अब अजादधिकं स्यात् तदा तचिहं अवरेखोपरि पतिष्यति वा झ्वरेखाया बहिः पति प्यति । एवं क्षेत्रत्रयेऽपि बअझवक्षेत्रं बअतदक्षेत्रं समानं भविष्यति । एवं बजतदक्षेत्रे बनलदक्षेत्रं समानं भविष्यति तदा बअझवक्षेत्रं बनलदक्षेत्रसमानं भविष्यति । पुनः अनेन प्रकारेण अजभुजस्य चतुभुजं जलचतुर्द्धजसमानं भविष्यति ।
पृष्ठम्:Rekha Ganita.djvu/१२७
दिखावट