पृष्ठम्:Rekha Ganita.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अक अथ पञ्चचत्वारिंशत्तमं क्षेत्रम् । तत्र कल्पितैकरेखोपरि चतुर्भजं समानान्तरं तथा । कर्दव्यमस्ति यथेष्टचतुर्मुबसमानं स्यात् तस्य च काणः अभीष्ट कोणसमानः स्यात् तस्यैकभुजः कल्पितरेखाङ्जसमानः स्यात् । यथा हतरेखा कल्पिता अबजदं चतुर्युजं कल्पितं लकोणश्च । ब जकर्णेन अबजदचतुर्मुजस्य विभागद्वयं कार्यम् । पुनीतरे // खायां झहतकचतुर्युजं अबज त्रिभुजसमं कार्यम् । हकोणो र्भ लकोणसमः कार्यः । झकरेखोपरि वकमचतुर्युजं बजदत्रिभुजसमं कार्यम् । वझककोणो लकणसमः कार्यः । एष कोणः हझककोणेन साईं समकोणद्वयेन समः। तदा हवरेखा एका सरला रेखा जाता । एवं तमरेखापि सरलास्ति । तदा हमचतुर्युजं समानान्तरभुजं हत खोपरि अबजदचतुर्युजेन समं हकोणस्तु लकोणेन समो जातः । इदमेवास्माकमभीष्टम् । अथ षदचत्वारिंशत्तमं क्षेत्रम् । तत्र एकस्यां रेखायां समकोणं चतुर्भजं क्षेत्रं कर्तव्यमस्ति । यथा अबरेखायां अचिहात् अबतुल्यः अजलम्बः कार्यः । ब चिहात् अजरेखासमानान्तरा अबतुल्या बदरेखा द, कार्या। जदरेखा संलमा कार्या । अदचतुभुजं समा नान्तरभुजं समभुजं समकोणं जातम् । इदमेवास्मा कमिष्टम् । १ समानान्तरभुजं D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२५&oldid=150688" इत्यस्माद् प्रतिप्राप्तम्