० यदि च अजकोणौ न्यूनफोणौ भवतः तदापि पूर्वोकप्रकारेण लम्बाः कार्याः। अजरेखायां बचिह्नालम्बस्यारम्भः कार्यः । एते लम्बा अब जदरेखान्तर्गता भवन्ति । ते च अबहशवतसंज्ञा उत्तरोत्तरं न्यूना एव भवन्ति । अजरेखा जदिशि बदरेखायाः निकटे भवति अदिशि दूर स्थिता च भवति । पुनर्दचिदालम्बाः कार्याः। एवं पूर्वप्रकारेण अजरेखा अदिशि बदखाया निकटे भवति जदिशि दूरस्थिता च भवति । एव मेकरेखा एकस्यां दिशि दूरस्थिता भवति तस्यामेव च निकटस्थिता भव तीत्यनुपपन्नम् । विलक्षणत्वात् । तस्मादुभौ अजकोणौ समकोणौ भवत इति सिद्धम् । इदमेवास्माकमभीष्टम् ॥ अथ चतुर्थक्षेत्रम् । तत्र समकोणस्य चतुर्भजस्य परस्परसन्सुखं भुजद्वयं स मानं भवति । यथा अबजदसमकोणचतुर्युबे अबभुजज तुल्यौ स्तः । यदि च समौ न स्तस्तदा एको भुजोऽधिकः न स्यात् । स जदभुजः कल्पितः । अथ दज- 1 रेखायां अबतुल्यं दहं पृथकार्यम् । अह• रेखा च फायो। एवं तत्र बअहकोणदहअ- कोणौ समकोणौ भवतः । यतो अबहदौ । लम्बौ समानौ स्तः । बअजकोणदजअकोणौ समकोणौ कल्पितौ । तस्मात् बअजकोणो बभहकोणश्वैतौ समानौ जातौ । बअहकोणश्च बअजकोणस्य खण्डमस्ति । इदमनुपपन्नम् ।
पृष्ठम्:Rekha Ganita.djvu/१०५
दिखावट