पृष्ठम्:Prabandhaprakasha.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६
प्रबन्धप्रकाश:
( ३ | ४८ ) | प्रवृत्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्ट-
ज्ञानम् ( ३ | २५ ) ।”
स्मर्थतां चात्र कविवरस्य मुरारंभणितिरियम्-
अविद्या बीजविध्वंसादयमार्षेण चक्षुषा ।
काला भूतभविष्यन्तौ वर्तमानमवीविशत् ||
अन्यच्च । आविभूतप्रकाशानामनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥
तस्मात्सत्यमेतद् यत् स्थिरप्रज्ञानां ब्रह्मनिष्ठानां नैष्ठिकाना-
मतीतानागतवर्तमानेषु कालेषु व्यवहिताव्यवहितेषु च प्रदेशेषु
ज्ञानमनिरुद्धमेव सर्वेष्वेव विषयेषु चाप्रतिहता तेषां बुद्धिः
कुरति । तस्मात्सर्वथा शोभनमुक्तम्-
ध्यानमयदृष्टिपातेत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९४&oldid=355392" इत्यस्माद् प्रतिप्राप्तम्