पृष्ठम्:Prabandhaprakasha.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
युक्तियुक्तं चैतत् । यतस्तस्य ज्योतिषां परमज्योतिषः पर-
ब्रह्मणो भासा भासितेऽन्तःकरणे कुतस्तस्वज्ञान विरोरोधिमोहा-
वकाशो ब्रह्मनिष्ठस्य, येन किमपि वस्तु तस्या विदितमव शिष्येत ।
तद्धि खलु परमं ज्योतिः । तथा च श्रुतिशिरोवागियं समुज्जृम्भते-
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
भान्तमनुभाति सर्व
तस्य भासा सर्वमिदं विभाति ॥
( कठोपनि० ५ । १५ ) ।
किश्च तस्मिन् परब्रह्मणि ब्रह्माण्डव्यापिनि साक्षात्कृते
तद्वयाप्यमिदं जगत्कथङ्कारमशेषता विदितं न स्यात् । तद्धि
धाम तेजसां सकलमिदं विश्वं सर्वत आविश्य वर्तते । तथा
चेदं श्रुतिवाक्यम्
-
ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मवेदं विश्वमिदं वरिष्ठम् ॥
( मुण्डकोपनिषद् २ | २ । ११ ) ।
तमेव
-
ततश्च ब्रह्मनिष्ठस्य ज्ञानस्य सर्वत्र सर्वदा प्रतिहता गतिः ।
तस्मिन् ब्रह्मणि साक्षात्कृते तस्य भासा सर्वमिदं भूतजातं दृष्टि
गोचरं भवति । तथा चाह महामुनिः पतञ्जलिर्योगसूत्रेषु "बहि
रकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ( ३ | ४३ ) ।
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९३&oldid=355391" इत्यस्माद् प्रतिप्राप्तम्