पृष्ठम्:Prabandhaprakasha.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८
विधूमपक्वं पिशितं च हृद्यं शृण्मस्तदेतानि सुभाषितानि ||
बोधिसत्व उवाच । कस्तवार्थ इत्थंगतस्य सुभाषितश्रवणेन ।
रक्षोविकृतवृत्तस्य संत्यक्तार्यपथस्य ते
नास्ति सत्यं कुतो धर्म: किं श्रुतेन करिष्यसि ||
अथ सौदासस्तामवसादनाममृष्यमाण: प्रत्युवाच ।
प्रबन्धप्रकाश:
तावद्
भेोः !
कोऽसौ नृपः कथय योन समुद्यतास्त्रः
क्रीडावने वनमृगीदयितान्निहन्ति ।
तद्वन्निहन्मि मनुजान्यदि वृत्तिहेतो-
राधर्मिक: " किल ततेोऽस्मि, न ते मृगघ्नाः ॥
बोधिसत्व उवाच |
धर्मे स्थिता न खलु तेऽपि नमन्ति येषां
भीतद्रुतेष्वपि मृगेषु शरासनानि ।
तेभ्योऽपि निन्द्यतम एव नराशनस्तु
जात्युच्छ्रिता हि पुरुषा न च भक्षणोया: ॥
मा
अथ सौदासः परिकर्कशाक्षरमध्यभिधीयमानो बोधिसत्वेन
तन्मैत्रीगुणप्रभावादभिभूत रौद्रस्वभावः सुखायमान एव तद्रचन-
मभिप्रहसन्नुवाच । भोः सुतसोम !
मुक्तो मया नाम समेत्य गेहं समन्ततो राज्यविभूतिरम्यम् ।
यन्मत्समीपं पुनरागतस्त्वं न नीतिमार्गे कुशलोऽसि तस्मात् ||
१ धर्मचरीत्याधर्मिकः । “अधर्माच्चेति वक्तव्यम्" इति ठक् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६६&oldid=355364" इत्यस्माद् प्रतिप्राप्तम्