पृष्ठम्:Prabandhaprakasha.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६
न ह्य वंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्ट
किञ्चित्कारणमुपलक्ष्यते । न चाकारणं किचिद्भवितुमर्हति ।
यदि पुनरकारणा एवंविधा विशेषा भवेयुस्ततः सर्वदा भवेयुर्य-
थाकाशम् न वा कदाचिद्भवेयुर्यथा शशविषाणादयः ।
यतश्चैते क्वचिद् भवन्ति क्वचिन्न भवन्ति, तस्मान्नैते निष्कारणा
इति गम्यते ।
2
प्रबन्धप्रकाश:
कि पुनरंतेषामुत्पादक कारणम् ( इति चेदुच्यते )। सम-
स्तानामपि जीवगतानां सुन्दर विशेषायां धर्म एवान्तरङ्गं कारणं
भवति । स एव हि भगवानेनं जीवं सुकुलेषत्पादयति, नि:शेष-
गुणमन्दिरतां नयति, समस्तानुष्ठानान्यस्य सफलयति उपनत
भोगाननवरतं भोजयति, प्रन्यांश्च समस्तशुभविशेषान् सम्पाद-
तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म
एवान्तरङ्गं कारणम् । स एव हि दुरन्तोऽमुं जीव दुष्कुलेषू-
त्पादयति, निःशेषदोषनिवासता प्रापयति, सर्वव्यवसायानस्य
विफलयति, उपनत्तभोगोपभोगविघ्नभूतं शक्तिवैकल्य जनयति,
अपरांचामनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते ।
यति ।
तस्माद्यद्बलेनैताः समस्तसम्पदः स एव धर्मः प्रधान: पुरुषार्थ: ।
अर्थकाम। हिवाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण सम्पद्येते ।
धर्मवतां पुनरतकिती स्वत एवोपनमेते । अतोऽर्थकामार्थभिः
पुरुषैः परमार्थता धर्म एवोपादातु' युक्तस्तस्मात्स एव प्रधान इति ।
यद्यप्यनन्तज्ञानदर्शनवीर्यानन्दात्मकजीवस्वरूपावस्थानलत-
गश्चतुर्थोऽपि मोक्षरूप: पुरुषार्थो निःशेषक्लेशराशिविच्छेद-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४७&oldid=355345" इत्यस्माद् प्रतिप्राप्तम्