पृष्ठम्:Prabandhaprakasha.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
चाटुकरणपरायणैः सेवक नरैरव जितमकरकेतुरिति हेतुभि: स्था
प्यते ।
अविद्यमान प्रभावगन्धोऽपि समस्तवस्तुसाधनप्रवणप्र-
भावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते । जघन्य.
घटदासिकातनयोऽपि प्रख्यातोन्नतमहावंशप्रसूतोऽयमिति प्रणयि
जनैः स्तूयते । आसप्तमकुलबन्धुता सम्बन्धविकलोऽपि परम-
बन्धुबुद्धया समस्तलो कैगृह्यते । तदिदं समस्तमर्थस्य भग
वतो विलसितम् |
किश्च - समाने पुरुषत्वे समसंख्यावयवाः पुरुषा यदेते
दृश्यन्ते लोकं, यदुत एके दायका अन्ये तु याचकाः, तथैके
नरपतयोऽन्ये पदातयः, तथैके निरतिशयशब्दाद्युपभोगभाजन-
मन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः, तथैकं पोषका
अन्ये पोष्या इत्यादयो नि:शेषविशेषा निजसद्भावासद्भावा-
भ्यामर्थेनैव सम्पाद्यन्ते । तस्मादर्थ एव प्रधान: पुरुषार्थ: ।
अत एवोच्यते-
६३
-
अर्थाय: पुरुषार्थोऽय प्रधान: प्रतिभासते ।
तृणादपि लघु लोकं धिगर्थरहित नरम् ||
काम एव प्रधान: पुरुषार्थ इत्यन्ये मन्यन्ते । तथा हि ।
न खलु ललितललनावदनक मल मकरन्दास्वादनचतुरचभ्वरीक-
ताचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते । किवार्थ-
निचयस्य कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव
वस्तुतः परमं फलम्। कामविकलैः पुनः किमेतै: सुन्दरैरपि
क्रियते । अन्यश्च । कामासेवनप्रवणचेतसां पुरुषाणां तत्स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४४&oldid=355341" इत्यस्माद् प्रतिप्राप्तम्