पृष्ठम्:Prabandhaprakasha.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
३५
नामात्यः सञ्जातः । अत ऊर्ध्वश्च यदपि किश्चित्स आदिशति
तन्मदीय एवादेश इति कृत्वा सर्वैरङ्गीकर्तव्यम् ।
उन्नतिपदाभिलाषिभिः स्त्रीया पूर्वावस्था
अथवा एतदेव महात्मनां लक्षणं यत्-

,
अयं भावः ।
नहि विस्मर्त्तव्या
धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चला: ।
प्रभवोऽध्यप्रमत्तास्ते
तादृशानेवाभिलक्ष्य गीयते -
महामहिमशालिनः ॥
ये दोनेषु दयालवः स्पृशति यानल्पोऽपि न श्रोमदो
व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्था: सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये
तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता धरा धार्यते ॥
इति ।


पुरुषार्थचतुष्टयम्
इह चरवार: पुरुषार्था भवन्ति तद्यथा अर्थ: कामो धर्मो
मोक्षश्चेति । तत्रार्थ एव प्रधान: पुरुषार्थ इति केचिन्मन्यन्ते ।
अर्थनिचयकलित: पुरुषो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्च-
विंशतिकतरुणनराकार प्रतीयते । अतिकातरहृदयोऽपि महा-
समरस निर्व्यूढसाहसोऽतुलबलपराक्रम इति गोयते । सिद्ध-
मातृकापाठमात्रशक्तिविकल बुद्धिरपि समस्तशास्त्रार्थावगाहनचतु-
रमतिरिति बन्दिभिः पठ्यते । कुरूपतया नितरामदर्शनीयोऽपि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४३&oldid=355340" इत्यस्माद् प्रतिप्राप्तम्