पृष्ठम्:Prabandhaprakasha.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
स्वाभीष्टार्थाधिगतौ सफला भवन्ति ।
तदत्र किं निदानमिति
मीमांसायामेतदेव वक्तव्यं यद् बाहुल्येनालस्यमहाव्यालदष्टानां
विमुग्धधियामुद्योगमहामन्त्र माहात्म्यस्याज्ञानमेव तत्कारणम् ।
आलस्यं हि शरीरिणां महान् रिपुरुद्यमश्च परम: सखेति
कस्याविदित सचेतसः । तथा चोच्यते-
's
,
,
,
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
उद्योगो हि नाम स्वाभीष्टार्थाधिगत्यै दृढ सङ्कल्पपूर्वकोऽगणि
तविघ्नबाधाप्रहारो व्यापार: । अयमेव उद्यमः, पुरुषकारः,
कर्म, अभ्यास, तप: इत्यादिनामभिस्तत्तद्विषयभेदेन व्यवह्रियते ।
तथा च एकेन वणिजा धनोपार्जनाय क्रियमाणो देशदेशान्तर-
गमनागमनादिकष्टबहुला वाणिज्यरूप: समारम्भः कृषीवलेन
केनचित् "कृषि: किष्टा वृत्ति:" इत्यनुसारं शीतोष्णादिकष्ट-
परम्परामगणयता शस्योत्पादनार्थ क्रियमाणः कर्षणादिरूपः
परिश्रम:, “सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्"
इत्युक्तिमनुसरतो विसृष्ट विषयभोगतृष्णस्य विद्यार्थिनों वा कस्य-
चिज्ज्ञानसम्पादनाय विद्याभ्यासरूपी व्यापारः, योगिनो वैकस्य
निरस्तविषयवातस्य "चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद्
दृढम्” इति भगवदुक्त्यनुसारं दुर्दमनीयस्य मनसो वशीकरण।र्थम्
"अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते” इत्यनुसारं यद्वा
“अभ्यासवैराग्याभ्यां तन्निरोधः” इति पातञ्जलयोगसूत्रार्थमनु-
सृत्य जपेश्वरप्रणिधानादिरूपोऽभ्यासः, तपस्विनो वा कस्यापि
१६

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२४&oldid=355321" इत्यस्माद् प्रतिप्राप्तम्