पृष्ठम्:Prabandhaprakasha.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
पर्जन्यो यावदूनं पूर्ण च सर्वमभिवर्षति ।
अथवा -- मेघा गिरिजलधिवर्षी च ।
पश्यस्यद्रौ ज्वलदग्निं न पुनः पादयोरधः |
पिष्टपेषणन्याय: ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
भतितेऽपि लशुने न शान्तो व्याधिः ।
भस्मन्याज्याहुति: । ( = [अरण्यरादनन्याय: ) ।
मारणाय गृहीतोऽङ्गच्छेदं स्वीकरोति ।
य एवं करोति स एव भुङ्क्ते ।
योगाइढिर्बलीयसी ।
लक्षण प्रमाणाभ्यां वस्तुसिद्धि: ।।
लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ।
वरं सांशयिकान्निष्कादसांशयिकः कार्षापण: ।
वरमद्य कपोतः श्वो मयूरात् ।
विषकुम्भं पयोमुखम् ।
विषस्य विषमौषधम् ।
वृद्धिमिष्टवतो मूलमपि ते नष्टम् ।
वृश्चिकभिया पलायमान आशीविषमुखे निपतितः ।
शिरसि मसीपटलं दधाति दोपः ।
शीर्षे सर्पो देशान्तरे वैद्यः ।
श्वः कार्यमद्य कुर्वीत ।
सहैव दशभिः पुत्रैर्भारं बहति गर्दभी ।
२१६

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२२६&oldid=355525" इत्यस्माद् प्रतिप्राप्तम्