पृष्ठम्:Prabandhaprakasha.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
चरकसंहितायाः
ज्ञानवतापि च नात्यर्थमात्मनो ज्ञानेन विकत्थितव्यम् ।
आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्ति अनेके ।
कृत्स्ना हि लोको बुद्धिमतामाचार्य: । शत्रुश्चाबुद्धिमताम् |
ज्ञानपूर्वकं कर्मणां समारम्भं प्रशंसन्ति कुशलाः ।
परीक्ष्यकारिणो हि कुशला भवन्ति ।
हेतावीर्षुः, फले नेषु: ।
नान्यदोषान् ब्रूयात् । नान्यरहस्यमागमयेत् |
नासंवृतमुखा जृम्भां क्षवथुं हास्यं वा प्रवर्तयेत् |
न नियमं भिन्द्यात् ।
२११
न सर्वविश्रम्भो, न सर्वाभिशङ्की ।
न कार्यकालमतिपातयेत् ।
न सिद्धावात्सुक्यं गच्छेत् । नासिद्धौ दैन्यम् ।
नापरीक्षितर्मभिनिविशेत् ।
प्रत्यक्षं ह्यल्पमनल्पमप्रत्यक्षमस्ति ।
न ह्यतः पापात्पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः ।
पुरुषोऽयं लोकसम्मित: । यावन्तो हि मूर्त्तिमन्तो लोके
भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके ।
सम्यकुप्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा | व्याप-
वासम्यक्प्रयोगनिमित्ता |
तद्वियसंभाषा हि ज्ञानाभियोगसंहर्षकरी भवति । वैशारद्यमपि
चाभिनिर्वर्त्तयति । वचनशक्तिमपि चाधत्ते। यशश्चाभिदीपयति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१८&oldid=355517" इत्यस्माद् प्रतिप्राप्तम्