पृष्ठम्:Prabandhaprakasha.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६
प्रबन्धप्रकाश:
उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः ।
यत्तिष्ठति तदाश्चर्य प्रयाणे विस्मयः कुतः ।।७५।।
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भय न जायते ।
विषं महाहेरिव यस्य दुर्वच : सुदुःसहं संनिहित सदा मुखे ॥७६॥
बदनं प्रसादसदनं सदय हृदय सुधामुचो वाच: ।
करणं परोपकरणं येषां केषां न ते वन्द्याः ||७७||
रविरपि न दहति ताहग्याक्संदहति वालुकानिकर
अन्यस्माल्लब्धपदा नीच: प्रायेण दुःसही भवति ॥ ७८
वस्तुनि चिराभिलषिते कथमपि दैवात्प्रसक्तसङ्घटने ।
प्राक्प्राप्तान्यपि बहुशो दुःखानि परं सुखानि जायन्ते ॥७८॥
आदाय वारि परितः सरितां मुखेभ्य:
किं तावदर्जितमनेन दुग्वेन ।
क्षारीकृत च वडवादहने हुतं च
पाताल कुक्षिकुहरे विनिवेशित च ||८०||
नैवाकृति: फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा |
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ||८१ || |
दुष्प्राप्याणि च वस्तूनि लभ्यन्ते वाञ्छितानि च ।
पुरुषैः संशयारूढैरल सैर्न कदाचन ॥५२॥
दुरधिगमः परभागो यावत्पुरुषेण साहसं न कृतम् ।
जयति तुलामधिरूढो भाखानिह जलदपटलानि ||८३ ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९६&oldid=355495" इत्यस्माद् प्रतिप्राप्तम्