पृष्ठम्:Prabandhaprakasha.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७
प्रबन्धप्रकाश:
सुहृदिव प्रकटथ्य सुखप्रद : प्रथममेकर सामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणो
विधिरहो विशिनष्टि मनोरुजम् ॥ ५॥
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ||६०॥
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरूपाधीन प्रीतयः संश्रयन्ते ।
विकसति हि पायोदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ||६१||
विषमावस्थिते दैवे पौरुषेऽफलतां गते ।
विषादयन्ति नात्मानं सत्त्वापाश्रयणी नराः ||६२||
चलन्तु गिरयः कामं युगान्तपवनाहताः
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चितं मनः ॥६३॥
भी दारिद्रय ! नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादत: ।
पश्याम्यहं जगत्सव न मां पश्यति कश्चन |॥६४॥
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले ! किं तुलयसि गुञ्जाफलैः कनकम् ॥६५॥
लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् ।
शेषे धराभराक्रान्ते शेते नारायणः स्वयम् ॥६६॥
अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः
परभणितिषु तोषं यान्ति सन्तः सुशान्ता |
निजघनमकरन्दस्यन्दपूर्णालवाल:
कलशसलिलसेकं नेहते किं रसालः ||६७॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१९४&oldid=355492" इत्यस्माद् प्रतिप्राप्तम्