पृष्ठम्:Prabandhaprakasha.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

,
प्रबन्धप्रकाश:
दर्शना दिशास्त्रषु नव्यप्राच्यन्याययोश्च प्रौढप्रगाढपाण्डित्या:
श्रीमद्गोस्वामिदामोदरशास्त्रियोऽपि तादृशा एव ।
वेदान्तेऽपि शङ्करभगवत्पादानन्तरं तच्छिष्या: पद्मपादा-
चार्या: काशिका एवासन् | ततः परं मध्ययुगे मधुसूदनसर-
स्वतीस्वामिनोऽपि वङ्गीया अपि चरमे वयसि काश्यामेव न्यवसन् |
नृसिंहाश्रमस्वामिनोऽपि काशिका एव । स्वयंप्रकाशयतयः,
काष्ठ जिद्दस्वामिनः, पूर्णाश्रमास्तारकाश्रमाश्च सर्वेऽप्यमी वेदान्त-
दान्ताशया यतिपुङ्गवा : काशिका एवासन् ।
न्यायेऽपि, भवानन्दसिद्धान्तवागीशाः महादेवदिनकर-
भारद्वाजौ, कृष्णभट्टो, विद्यानिवास भट्टाचार्यो, विश्वनाथ-

पञ्चाननः पुण्यस्तम्भकरमहादेवो गङ्गारामजडी च वैदेशिका
अपि कोश्यां चिरमवात्सुः । महामहोपाध्यायकैलासचन्द्र-
शिरोमणि भट्टाचार्यश्च काशीमेव चिरं निषेव्य विससर्ज तत्रैव
वपुः । तच्छिष्येषु प्रमुखा महामहोपाध्याय श्रीवामाचरणभट्टा-
चार्योऽद्यापि काशिकराजकीयपाठशालायां मुख्याध्यापकपदे
विराजमानस्तपस्विनीं न्यायविद्यां संरक्षति ।
१२८
,
,
धर्मशास्त्रोऽपि भट्टभट्टवंश्येषु प्रथमगण्या: श्रीनारायणभट्टाः,
शङ्करभट्टः कमलाकरभट्टो, नीलकण्ठभट्टो, दिनकरभट्टश्च
धर्माधिकारिवंश्येषु प्रख्यातकीर्तयो नन्दपण्डिता: ; शेषवंश्येषु
शेषश्रीकृष्णाश्च प्रसिद्धा एव प्रन्थकर्त्तारः समभवन् । सांख्येऽपि
विज्ञानभिक्षवो, भावेगणेश दीक्षिताः। मीमांसायामपि खण्डदेवाः,
१ हन्त ! दिव गतोऽसौ महाशयः १६८८ वैक्रमाब्दे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१३७&oldid=355435" इत्यस्माद् प्रतिप्राप्तम्